________________
१३२
द्वादशारनयचक्रे
व्यक्तीभवतीति तदुक्तम्भवति प्रवृत्तिनियमानपेक्षेण सत्त्वसत्त्वेन सत्वसत्वं प्रकाश्यत इति, सत्त्वसत्त्वमिति च विशेषणं रजःसत्त्वतमः सत्त्वाभ्याम्, तयोरपि त्वन्मतप्रसिद्धया भेदेऽस्मदुक्तवदभेद एव, सतो हि भावः सत्त्वं यस्मात्तदेव सद्भवति तस्मात्तदेव सत्त्वम् तत्त्वं तद्भावः परिणाम इत्यनर्थान्तरम्।
एवं रजः सत्त्वेन सत्त्वसत्त्वम् । किमुक्तंभवति व्यक्तिप्रवृत्तिपरिणत्या तयैव प्रवृत्त्यात्मिकया व्यक्त्येत्येतदुक्तंभवति, एवं तमःसत्त्वेन सत्त्वसत्त्वम् किमुक्तंभवति व्यक्तिनियमपरिणामेन तयैव नियमात्मिकया व्यक्त्येत्येतदुक्तंभवति, एवमेव रजःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्येवेत्युक्तंभवति, रजःसत्त्वेन रजःसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्येवेत्युक्तंभवति, रजःसत्त्वेन तमःसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्येवेत्युक्तंभवति, तथा तमःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेत्युक्तंभवति, तमःसत्त्वेन रजःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेत्युक्तम्भवति, तमःसत्त्वेन तमःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेत्युक्तंभवतीति।
एवमेव च सत्त्वप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्व प्रकाश्यते, रजःप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्च प्रवर्त्यते, तमःप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्च नियम्यत इति त्रयोऽप्यर्था ऐक्यमापादनीयाः।