________________
१३०
द्वादशारनयचक्रे ___अथोच्येत एवमेव तत्कारणत्वं युज्यते तत्र च तेषु कार्यसत्त्वं एव, शुक्लरक्तकृष्णतन्त्वात्मिकाया रज्जोः कार्यायास्तन्तुकारणत्ववदिति, नन्वेवमेवमेवेति वचनस्य द्वयी गतिः यथा वाऽस्मदुक्तवदेकात्मकं कारणमनेकाकारविपरिवृत्ति पुरुषवदिति रजस्तमसी सत्त्वमेव, प्रकाशकारकत्वादित्येतस्यां गतौ दोषः स एव पुरुषाद्यन्यतमैक कारणवादाभ्युपगमः, अथ त्वन्मतेन जात्यन्तरसुखादित्रय कारणतदात्मककार्याभ्युपगमेनैवमेवेति।
एषा गतिरस्तु को दोषः? इति चेद्रूमः सर्वव्यक्तव्यापि चासत्कार्यत्वम्, प्रतिगुणं प्रकाशाद्योयोः कार्यात्मनोः प्रागभूतत्वात्, अन्यगुणकारणकार्यात्मनामन्यत्रासतामुत्पत्ते र्व्यवस्थानवचनात् प्रख्यापनवचनाच्चाभ्युपगतत्वात्।
बौद्धवद्वाऽसत्कार्यत्वम्, तथाभूतवस्तुनिर्मूलोत्पत्तित्वात्, द्वितीयक्षणघटवत्, पुरुषवत्।
__ असत्कार्याः शब्दादयः कारणत्वात्, अन्यगुणात्मकसुखप्रवृत्त्यादिवत्, सुखं सत्त्वगुणं प्रागसत् प्रवृत्तिनियमकार्यं पश्चात्तत् कार्यं दृष्टं कारणञ्च तद्वच्छब्दादयोऽसत्कार्याः कारणताञ्च बिभ्रति, इतरानुपकृताविद्यमानप्रकाशादित्रयसुखादिकारणवत्, प्रत्येकमितरानुपकृतविद्यमानप्रकाशादित्रयस्वकार्या वा सुखादयः कारणत्वात् शब्दादिवत्तन्त्वादिवद्वेति पुरुषादिवाद एवैषः।
अथ प्रकाशात्मकयो रजस्तमसोः शब्दात्मना व्यवतिष्ठमानेन तत्प्रख्यातिना सत्त्वेन तदात्मभावाय प्रवृत्तिः प्रख्याप्यते इति विकल्प