________________
।। श्री अर्हते नमः ।। ।। श्री पद्म-जीत-हीर-कनक-देवेन्द्र-कलापूर्ण-कलाप्रभसूरिगुरुभ्यो नमः ।।
प्रास्ताविकम् महोपाध्यायश्रीयशोविजयविरचितः “द्रव्य-गुण-पर्यायरास”नामा कश्चन अद्भुतः ग्रन्थः ! प्राकृत(गुजराती)भाषानिबद्धोऽयं ग्रन्थः आश्चर्यं बिभर्ति यद् अस्य विवेचनं संस्कृतेन विहितं प्रागपि विद्वद्भिः । अन्यथा अस्मदीया इयं पद्धतिः यत् संस्कृतग्रन्थस्य गुजरातीभाषया विवेचनकरणम् । तत्र इयं कृतिः अपवादरूपा।
करुणाऽमृतरसपूर्णान्तःकरणैः परोपकाररसिकैः एभिः महोपाध्यायैः न केवलं संस्कृतभाषानिबद्धाः ग्रन्थाः रचिताः, अपि तु गुजरातीभाषयाऽपि नैके ग्रन्थाः प्रणीताः। तत्र तेषां करुणा एव विजृम्भते । केवलं पण्डितजनगम्या इयं संस्कृता भाषा। परं प्राकृतजनानां कल्याणं संस्कृतग्रन्थैः कथं स्यात् ? संस्कृतविज्ञास्तु केचन एव । सामान्यजनास्तु संस्कृताऽनभिज्ञाः एव । तेषां कल्याणं तु प्रादेशिक्या भाषया एव शक्यम्। भगवता महावीरेणाऽपि प्रादेशिक्या (अर्धमागधीनाम्न्या) भाषया एव देशनाः विहिताः। आगमाः अपि तया भाषया एव सन्दृब्धाः ऋषिभिः स्व-परकल्याणकामिभिः। सा एव पद्धतिः अत्र अनुसृता।
द्रव्य-गुण-पर्यायविषयः किल अतिगूढः । सामान्यजनमतिस्तत्र प्रायेण मुह्येत् । परं केचन संस्कृतविज्ञाः दुर्विदग्धाः एवं मा मन्येरन् यद् इयं तु प्रादेशिक्या भाषया निबद्धा कृतिः ! किं तत्र वैशिष्ट्यं स्यात् ? ते हि एवं चिन्तयन्ति - अतिगम्भीरतत्त्वपूर्णाः कृतयः संस्कृतनिबद्धाः एव स्युः । तेषां मोहापहतये स्मारितमहोपाध्यायशोविजयमतिवैभवेन विद्वत्पुङ्गवेन पंन्यासप्रवरेण श्रीयशोविजयेन इयं कृतिः संस्कृतभाषया अनूदिता । ___ द्रव्य-गुण-पर्यायरासग्रन्थस्य अस्मिन् विभागे केवलं एकविंशतिः गाथाः सन्ति। गाथायाः संस्कृतश्लोकरूपेण पद्यानुवादः । स्वोपज्ञगुर्जरभाषास्तबकस्य भावमादाय संस्कृतसविस्तरविवेचनमिति अस्य ग्रन्थस्य वैशिष्ट्यम् । इदं पठन्तः विद्वांसः अनुभविष्यन्ति यद् अयम् आधुनिकः मुनिः यशोविजयः महोपाध्यायश्रीयशोविजयप्रतिकृतिः एव इति । यतः अस्यां द्रव्यानुयोगपरामर्शकर्णिकायां न केवलं हरिभद्रसूरिप्रभृतिप्रणीतजैनशास्त्राणां साक्षिपाठाः, अपि तु दण्डिकृतकाव्यादर्श व्यासविरचितमहाभारतप्रभृतीनां जैनेतरशास्त्राणामपि अत्र संवादपाठाः शतशः प्रतिपदं दृश्यन्ते । इदमस्य विदुषः सर्वत्रगां प्रतिभा परिचाययति । महोपाध्यायसनामाऽयं मुनिरिति कश्चिद् अद्भुतः योगानुयोगः । यशोविजयनामधारिणः सर्वेऽपि यशोविजयाः नैव भवितुमर्हन्ति, परमनेन मुनिना गुरुदत्तनामसार्थक्यं