SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ॥ दंडकपकरणं ॥ % ता भवन्ति । तियसेसे इति०, शेषेषु त्रयः समुद्घाता भवन्ति । चकारात् चतुषु पृथिव्यप्तेजोवनस्पतिषु विकलेन्द्रियेषु चाद्यास्त्रयः समुदघाता भवन्ति । अर्थात् सप्तदण्डकेषु त्रयः समुदघाता भवन्तीत्यर्थः । नवम समुदघातद्वारं व्याख्यातं । अथ द. शमं दृष्टिद्वारं कथ्यते । विगलेति० विकलेषु द्वित्रिचतुरिन्द्रियेषु , दृष्टी भवतः, सम्यग्दृष्टिमिथ्यादृष्टिश्चेत्यर्थः । स्थावराणामेका मिथ्यादृष्टि: स्यात् । सेसति शेषेषु दण्डकेषु तिम्रो दृष्टयो भवन्ति । सविस्तरेणाह-नैरयिकाणां भवनपत्यादिवैमानिकान्तानां देवानां मनुष्याणां गर्भज तिरश्चां च तिस्रो दृष्टयः प्राप्यन्ते । कोऽर्थः ? षोडशदण्डकेषु तिस्रो दृष्टयो भवन्तीत्यर्थः । दशमं दृष्टिद्वारं व्याख्यातं । चः समुच्चयार्थः ॥ १८ ॥ अथ एकादशं दर्शनद्वारमाहथावरबितिसु यचक्ख, चउरिदिसु तद्गं सुए भणियं मणुआ चउदंसणिणो, सेसेसु तिगं तिगंभणिअं ॥१९॥ __ (अव.) स्थावरद्धीन्द्रियत्रीन्द्रियेषु केवलमचक्षुर्दर्शनं, चतुरिन्द्रियेषु तद् द्विकं चक्षुरचक्षुरूपं श्रुते कर्मग्रन्थादौ णितं,मनुष्याश्वतुर्दशनिनः। शेषेषु सुरनारकतिर्यक्षु त्रिकं त्रिकं दर्शनस्य चक्षुरचक्षुरवधिरूपं ।११। ॥ ९॥ द्वारद्वयं समकमाह टीका-थावर वितिसुक्तिः पञ्चसु स्थावरेषु द्वीन्द्रियेषु त्रीन्द्रि येषु च अचक्षुर्दर्शनमेकं भणितं प्रोक्तं श्रुते । चतुरिन्द्रियेषु तद्द्विकं भणितं तयोश्च चक्षुरचक्षुदर्शनयोढिकं तद्विकं । च पुनः मनुष्याः चतुर्दश निनो भवन्ति, मनुष्येषु चत्वारि चक्षुरचक्षुरव धिकेवलरूपाणि दर्शनानि भणितानीत्यर्थः । सेसेसु तिग तिगं. ति० शेषेषु दण्डकेषु त्रिकं त्रिकं भणितम् । नैरयिकेषु भवनप. त्यादिवैमानिकावसानेषु तिर्यक्षु चाद्यानि त्रीणि दर्शनानि भवन्ति, एतावता पञ्चदशदण्ड केषु त्रीणि आद्यानि दर्शनानि भषन्तीत्यर्थः । दर्शनद्वारं समुदीरितम् ॥ १९ ॥
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy