________________
888888888888888888888888888888888888888888888888
8888888888888888
(३३३) वस्तुस्वभावो धर्मो हि स चानन्तविधो मतः। पदार्थानामनन्तत्वात् स्वभावे चानन्तता गता॥
(३३४) तथापि कतिभिरेव, नित्यं चोपकारिभिः। समाश्रित्य भङ्गी प्रोक्ता, मान्या वै सप्तधैव सा॥
(३३५) गिरन्ति श्वेतवसनाः विद्वांसः तत्त्वदर्शिनः। तेषामेव मतेनैव विचारो मयका कृतः॥ द्रव्यपर्यायचर्चा (३३६) द्रव्यपर्यायमाश्रित्य
बहवस्तत्त्वदर्शिनः। प्रज्ञाभरेण चात्मीयान् भावान् वाढं वितेनिरे॥
(३३७) अहं चापि कियन्मानं वक्तुमीहे प्रयत्नतः। गुणा दोषाश्च सर्वत्र जायन्तेऽपेक्षया स्वया॥
(३३८) गुणाश्रयं क्रियाधारं द्रव्यमाहुश्च तार्किकाः।
पृथिव्यादिषु द्रव्येषु विजानन्ति सुधीश्वराः॥ SABRERERURLAUBERERUPEREREREREAL
श्रीजैनसिद्धान्तकौमुदी : ५७
88888888888888888888888888888888888888888888