________________
8888888888888888
गुणपर्यायवद् द्रव्यं क्रियते स्याद्विपश्चिता। पुद्गलाऽपुद्गलाः सर्वे गुणवन्तः सन्ति सर्वदा॥
द्वन्द्वाभिधे समासे तु चाभ्यर्हितं पदं हि यत्। तदेव प्रथमं प्राज्ञैः प्रयोक्तव्यं प्रयत्नतः॥
88888888888888888888888888888888888888888888
| धर्मादभ्यर्हितं | तेन धर्मपदं
चान्यन्नैवेति पूर्वं प्रयुक्तं
भुवनत्रये। तत्त्ववेदिना॥
88888888888888888888888888888888888888888880
किं धर्मः किमधर्मो हि कवयस्तत्र मोहिताः। तत् स्वरूपं त्वया प्रोच्य येन कार्य प्रवर्तताम्॥
शृणुष्ववहितो विज्ञ! तत्स्वरूपं वदाम्यहम्। विश्वं विध्रियते येन धर्मोऽसौ कथितो जिनैः॥
धृञ् धारणको धातुधारणार्थे निरूपितः।
धृते मश्चेति सूत्रेण प्रत्ययो मो विधीयताम्॥ R888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : २