________________
३४४४४४४४४४४४४४४४४४
(४२९)
छिन्नग्रीवा तदा जाता न्यायः प्रचलितस्तदा । एवं काकः तृषाखिन्नो धर्मतप्तो हि कानने ॥
(४३०) तालस्याधः स्थितो यावत् झञ्झावातस्तदाचलत् । श्लस्थाद् वृन्तात् फलं पक्वं पपात तस्य मूर्धनि ॥ (४३१) काको मृतस्ततश्चायं न्यायो लोके व्यजृम्भत । चलन्ति येन कार्याणि नयोऽसौ कथितो बुधैः ॥
(४३२)
एते नया नयाभासाः सदा हासविधायिनः । चत्वारो ननु निक्षेपाः कथिता नयवादिभिः ॥
(४३३)
विलोक्यते ।
नामस्थानद्रव्यभावैरन्यत्रापि पाषाणनिर्मिते चित्रे प्रतिबिम्बेऽपि प्रयत्नतः ॥
(४३४) वीराऽभावे महावीरः स्थाय्यते धर्मवत्सलैः । गृहे वा नगरे वापि जिनागरे सुमन्दिरे ॥
888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ७३