________________
४४४४४४४8888888888888888888888888
(४१७)
यौगिकः
: खलु शब्दो हि योगार्थस्य गवेषकः । प्रवर्तते हि तत्रैव परत्र न यथार्थकः ॥
(४१८)
ये स्वल्प द्रविणाः सन्ति स्वल्पेनैव धनेन ते । व्यवहारं वितन्वन्ति स्वल्पं स्वल्पार्थदायकम् ॥
( ४१९ ) - व्यवहारेण मार्गेण नृनाथाऽनुमतेन तु । व्रजन् मन्दोऽपि पथिको नो वा स्खलति कुत्रचित् ॥
(४२०)
शब्दरूढनयश्चापि रुढ्यर्थ विषयोऽनुगः । रूढिशब्दा हि लोकेऽस्मिन्नल्पीयांसो भवन्ति वै ॥
(४२१) स शक्नोति दया शक्रः शत्रून् विजयते सदा । विस्फोरयति स्वां शक्तिं शक्रोऽसौ परमार्थिकः ॥
(४२२)
अन्यकाले नचान्वर्थ: शब्दरूपो गिरत्यमुम् । तस्मान्न्यूनतमो मतः ॥
इत्थंभूतनयश्चापि
88888888888888888888888888
श्रीजैन सिद्धान्तकौमुदी : ७१