SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सामादिकादि प्रतिमावर्णनम् । १२५. अयं भावः स्वतः सिद्धं यथालब्धं समाहरेत् । तपश्चेच्छानिरोधाख्यं तस्यैव किल संवरः ॥ ४६॥ इदमिदं कुरु मैवेदमित्यादेशं न यच्छति । मुनिवत्प्रासुकं शुद्धं यावदन्नादि भोजयेत् ।। ४७ ॥ गृहे तिष्ठेद् देतस्थोपि सोयमर्थादपि स्फुटम् । शिरः क्षौरादि कुर्याद्वा न कुर्याद्वा यथामतिः ॥ ४८ ॥ अद्य यावद्यथालिङ्गो नापि वेषधरो मनाक् । शिखासूत्रादि दध्याद्वा न दध्याद्वा यथेच्छया ।। ४९ ॥ तिष्ठेद्देवालये यद्वा गेहे सावधवर्जिते । स्वसम्बन्धिगृहे भुंक्ते यद्वाहूतोन्यसद्मनि ॥ ५० ॥ एवमित्यादिदिग्मात्रं व्याख्यातं दशमव्रतम् । पुनरुक्तभयादत्र नोक्तमुक्तं पुनः पुनः ॥ ५१ ॥ व्रतं चैकादशस्थानं नाम्नानुद्दिष्टभोजनम् । अर्थादीषन्मुनिस्तद्वानिर्जराधिपतिः पुनः ॥ ५२ ॥ समुद्दिश्य कृतं यावदन्नपानौषधादि यत् । जाननेवं न गृह्णीयान्नूनमेकादशव्रती ॥ ५३ ।। सर्वतोस्य गृहत्यागो विद्यते सन्मुनेरिव । तिष्ठेद्देवालये यद्वा वने च मुनिसन्निधौ ॥ ५४॥ उत्कृष्टः श्रावको द्वेधा क्षुल्लकश्चैलकस्तथा। एकादशव्रतस्थौ द्वौ स्तो द्वौ निर्जरको क्रमात् ॥ ५५ ॥ उक्तं च । एयारम्मिहाणे उक्किहो सावओ हवे दुविहो । वच्छेयधरो पढमो कोवीणपरिग्गहो बिदिओ ॥ तत्रैलकः स गृह्णाति वस्त्रं कौपीनमात्रकम् । लोच स्मश्रुशिरोलोम्नां पिच्छिकां च कमण्डलुम् ।। ५६॥ पुस्तकाद्युपधिश्चैव सर्वसाधारणं यथा ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy