________________
लाटीसंहितायां
उक्तं च । पंचवि इंदिय पाणा मण बचकायेण तिण्णिबल पाणा । आणपाणप्पाणा आउगपाणेण हुंति दह पाणा । एकाक्षे तत्र चत्वारो द्वीन्द्रियेषु षडेव ते। त्र्यक्षे सप्त चतुराक्षे विद्यन्तेष्टौ यथागमात् ॥ ६२ ॥ नवासंज्ञिनि पञ्चाक्षे प्राणाः संज्ञिनि ते दश । मत्त्वेति किल सद्मस्थैः कर्तव्यं प्राणरक्षणम् ।। ६३ ॥ अत्रैकाक्षादिजीवाः स्युः प्राणशब्दोपलक्षणात् । प्राणादिमत्त्वं जीवस्य नेतरस्य कदाचन ।। ६४ ॥ प्रसङ्गादत्र दिग्मानं वाच्यं प्राणिनि कायकम् । तत्स्वरूपं परिज्ञाय तद्रक्षां कर्तुमर्हति ॥ ६५ ॥ सन्ति जीवसमासास्ते संक्षेपाच्च चतुर्दश । व्यासादसंख्यभेदाश्च सन्त्यनन्ताश्च भावतः ॥ ६६ ॥ तत्र जीवो महीकायः सूक्ष्मः स्थूलश्च स द्विधा । पर्याप्तापर्याप्तकाभ्यां भेदाभ्यां स द्विधाथवा ।। ६७ ॥ प्रत्येकं तस्य भेदाः स्युश्चत्वारोपि च तद्यथा । शुद्धाभू भूमिजीवश्च भूकायो भूमिकायिकः ॥ ६८ ॥ शुद्धा प्राणोज्झिता भूमियथा स्याद्दग्धमृत्तिका । भूजीवोऽद्यैव भूमौ यो द्रागेष्यति गत्यन्तरात् ॥ ६९ ॥ सूरेव यस्य कायोस्ति यद्वानन्यगतिर्भुवः । भूशरीरस्तदात्वेस्य सभूकाय इत्युच्यते ॥ ७० ॥ भूकायिकस्तु भूमिस्थोऽन्यगतौ गन्तुमुत्सुकः । न्स समुद्घातावस्थायां भूकायिक इति स्मृतः ॥ ७१ ॥
१ पश्चअपि इन्द्रियप्राणाः मनोवचःकायेन त्रयःबलप्राणाः । आनप्राणप्राणा आयुष्यप्राणेन भवन्ति दश प्राणाः ।