________________
आत्मानुशासनम् । यः श्रुचा द्वादशाङ्गों कृतरुचिरस्थ तं विद्धि विस्तारदृष्टिं संजातार्थात् कुतश्चित् प्रवचनवचनान्यन्तरेणार्थदृष्टिः । दृष्टिः साङ्गालबाह्यप्रवचनभवगाह्योत्थिता यावगाढ़ा कैवल्यालोकितार्थे रुचिरिह परमावादिगादेति रूढ़ा ॥१४॥ शमबोधवृत्ततपसां पाषाणस्येव गौरवं पुंसः। पूज्य महामणेरिव तदेव सम्यक्त्वसंयुक्तम् ॥१५॥ मिथ्यात्वातङ्कवतो हिताहितप्राप्त्यनाप्तिमुग्धस्य । वालस्येव तवेयं सुकुमारैव क्रिया क्रियते ॥१६॥ विषयविषप्राशनोत्थितमोहज्वरजनिततीव्रतृष्णस्य । निःशक्तिकस्य भवतः प्रायः पेयाधुपक्रमः श्रेयान् ॥१७॥ सुखितस्य दुःखितस्य च संसारे धर्म एव तव कार्यः । सुखितस्य तदभिवृद्ध्यै दुःखभु जस्तदुपघातायः ॥१८॥ धर्मारामतरूणां फलानि सर्वेन्द्रियार्थसौख्यानि । संरक्षतांस्ततस्तान्युच्चिनुयैस्तैरुपायैस्त्वम् ॥१६॥ धर्मः मुखस्य हेतुर्हेतुर्न विरोधका स्वकार्यस्य । तस्मात् सुखभङ्गभिया माभूधर्मस्य विमुखस्त्वम् ॥२०॥ धर्मादवाप्तविभवो धर्म प्रतिपाल्य भोगमनुभवतु । बीजादवाप्तधान्यः कृषीवलस्तस्य बीजमिव ॥२१॥ संकल्प्यं कल्पवृक्षस्य चिन्त्यं चिन्तामणेरपि । असंकल्प्यमसंचिन्त्यं फलं धर्मादवाप्यते ॥ २२॥ परिणाममेव कारणमाहुः खलु पुण्यपापयोः प्रामाः । तस्मात् पापापचयः पुर पोपचयश्च सुविधेयः ॥२३॥ कृत्वा धर्मविघातं विप्रयमुखान्यनुभवन्ति ये मोहात् । श्राच्छिद्य तरं मूलात्फलानि गृह्णन्ति ते पापाः ॥२४॥