SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रा. न खलु समयसारादुत्तरं किञ्चिदस्ति ॥ ५१ ॥ इदमेकं जगच्चक्षुरक्षयं याति पूर्णताम् । विज्ञानघनमानन्दमयमध्यक्षतां नयत् ॥५२॥ इतीदमात्मनस्तत्त्वं ज्ञानमात्रमवस्थितं । अखण्डमेकमचलं स्वसंवेद्यमबाधितम् ॥ ५३॥ इति सर्वविशुद्धिज्ञानाधिकारः ॥ १० ॥ अत्र स्याद्वादशुद्ध्यर्थ वस्तुतत्त्वव्यवस्थितिः। उपायोपेयभावश्च मनाग्भूयोऽपि चिन्त्यते ॥ १ ॥ बाह्याथैः परिपातमुज्झितनिजप्रव्यक्तिरिक्तीभवद्विश्रान्तं पररूप एव परितो ज्ञानं पशोः सीदति । यत्तत्तत्तदिह स्वरूपत इति स्याद्वादिनस्तत्पुनदूरोन्मग्नघनस्वभावभरतः पूर्ण समुन्मजति ॥ २॥ विश्वं ज्ञानमिति प्रतयं सकलं दृष्ट्वा स्वतत्त्वाशया भूत्वा विश्वमयः पशुः पशुरिव स्वच्छन्दमाचेष्टते । यत्तत्तत्पररूपतो न तदिति स्याद्वाददर्शी पुन. विश्वाद्भिन्नमविश्वविश्वघटितं तस्य स्वतत्त्वं स्पृशेत् ॥३॥ याह्यार्थग्रहणस्वभावभरतो विष्वग्विचित्रोल्लसद् ज्ञेयाकारविशीर्णशक्तिरभितस्त्रुट्यन्पशुनश्यति । एकद्रव्यतया सदाव्युदितया भेदभ्रमं ध्वंसयन् नेकं शानमबाधितानुभवनं पश्यत्यनेकान्तवित् ॥ ४॥ झेयाकारकलङ्कमेचकचिति प्रक्षालनं कल्पयस्नेकाकारचिकोर्षया स्फुटमपि ज्ञानं पशुर्नेच्छति । वैचित्र्येऽप्यविचित्रतामुपगतं ज्ञानं स्वतः क्षालितं
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy