SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे सकृच्छ्न्ये समक्षे अनाभोगे अदत्तग्रहणे । कायोत्सर्गोपवासा एकोत्तरा असकृत् मूलगुणं ॥ अस्या अर्थः-निर्जनेऽदृश्यमाने मोहेन गृहीतं तावत् क्षणेन पुनस्तत्रैव स्थापितं कायोत्सगैकेन शुद्धयति । प्रत्यक्ष उपवासः । अनालोचिते उपवासद्वयं । ज्ञाते गृहीते उपवासत्रयं । बहुवारान् गृहीते पंचकल्याणं । कस्येदं भणित्वा गृहीते पंचकल्याणम् ॥ अदत्तादानविरतिव्रतम् पादोसणियमरहिए वंदणसहियस्स हीणसज्झाए । सुत्तस्स रेदखिरणे उवठावण दुण्णि खवणाणि ॥ २१ ॥ प्रदोषनियमरहिते वन्दनासहितस्य हीनस्वाध्याये । सुप्तस्य रेतःक्षरणे उपस्थापनं द्वे क्षमणे ॥ अस्या अर्थः-प्रथमनिशि समये प्रहरे नियमस्वाध्यायं विना देववन्दनाकृते तु सुप्ते दुःस्वप्ने दृष्टे प्रतिक्रमणमुपवासद्वयं । नियमे कृते देववन्दनास्वाध्यायं विना निद्रायां रेतःस्रावे नियमसहितमुपवासमेकम् ॥ णियमे जुत्तस्स पुणो सेसे रहिदस्स छेद पुवह्मि। सज्झायरहियसुत्तो पावइ उववास णियमं च ॥ २२ ॥ नियमेन युक्तस्य पुनः शेषै रहितस्य छेदः पूर्वस्मिन् । स्वाध्यायरहितमुप्तः प्राप्नोति उपवासं नियमं च ॥ अस्या अर्थः-स्वाध्यायारहितः सुप्तः देववन्दनाप्रतिक्रमणकृते रात्री निद्रायां स्वप्ने सति रेतःपरिस्रावो जातः प्राप्नोति उपवाससहितं प्रतिक्रमणम् ॥ रादि णियो सुत्तो पच्छिमभायम्मि गहियसज्झाओ। णियमुववासेण तहा सोहिज्जब रेदखिरणेण ॥ २३ ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy