SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । अस्या अर्थः ब्राह्मणवधायां मासाष्टकं एकान्तरं अन्ते षष्ठं । क्षत्रियघाते चतुर्मासमेकान्तरमन्ते षष्ठं । वैश्यवधे द्विमासमेकान्तरमन्ते षष्ठं । शूद्रवधे मासमेकान्तरं अन्ते षष्ठं । ग्राममृगे चतुष्पदवधे पंचदशदिवसमेकान्तरं अन्ते षष्ठं ॥ तणमंसासिविहंगा उरपरिसप्पाण जलचरवहम्मि । चउदसआई काउं णवखमणाणि मलहरणं ॥ १८ ॥ तृणमांसाशिविहंगानां उरःपरिसर्पाणां जलचरवधे । चतुर्दशादिकं कृत्वा नवक्षमणानि मलहरणं ॥ अस्या अर्थः--तृणचराणां वधे चतुर्दशोपवासाः। मांसाहारिचतुष्पदवधे त्रयोदशोपवासाः। पक्षिवधे द्वादशोपवासाः । सर्पवधे एकादशोपवासाः । शरर( ट ) वधे दशोपवासाः । जलचरवधे नवोपवासाः ॥ • एवं प्रथमव्रतमुपगतम् । सइ पच्चक्ख परोक्खे उभयं तियकरण मोसमासिस्स। काओसग्गुववासा एगुत्तर असइ संठाणं ॥ १९॥ सकृत् प्रत्यक्ष परोक्षे उभयस्मिन् त्रिकरणे मृषाभाषिणः । कायोत्सर्गोपवासा एकोत्तरा असकृत् संस्थानं ॥ अस्या अर्थः–एकवार प्रत्यक्षे असत्यमुक्ते कायोत्सर्ग । परोक्षे असत्यमुक्त उपवासमेकं । प्रत्यक्षपरोक्षे असत्यमुक्ते उपवासद्वयं । मनोवचनकाये असत्यमुक्ते उपवासत्रयं । बहुवार प्रत्यक्षे कल्याणमेकं । परोक्षेऽपि पंचकल्याणं । उभयासत्येऽपि पंचकल्याणम् ॥ एवं सत्यव्रतम् । सइ सुण्णम्हि समक्खे अणासभोगे अदत्तगहणम्मि । काउस्सगुववासा एगुत्तर असइ मूलगुणं ॥ २० ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy