SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे-- अहवा जत्ताजत्ते इंदियगणणा य पाणगणणा य । काउस्सग्गा होति हु उववासा बारसादीहिं ॥ १४॥ अथवा यत्नायत्नयोः इन्द्रियगणनया च प्राणगणनया च । कायोत्सर्गा भवन्ति हि उपवासा द्वादशादिभिः ॥ अस्या अर्थः--एवं प्रयत्ने इन्द्रियगणनया कायोत्सर्गः । अप्रयत्नस्य प्राणगनया कायोत्सर्गः ॥ रिसिसावयबालाणं इत्थीगोघादणमि मलहरणं । बारसमासादीणं अद्धद्धकमेण छ? तवं ॥ १५ ॥ ऋषिश्रावकबालानां स्त्रीगोघातने मलहरणम् । द्वादशमासादीनां अर्धार्धक्रमेण षष्ठं तपः ॥ अस्या अर्थः-ऋषिघातकस्य द्वादशमासं यावत् षष्ठं । श्रावकघातकस्य षष्मासास्त्रिरात्रं । बालकघातकस्य त्रिमासं त्रिरात्रं । स्त्रीवधकस्य अर्धमासैकं षष्ठं । गोवधकस्य पंचविंशतिदिनानि त्रिरात्रं ॥ पासंडातब्भत्ता जोणिसरिसाण घादणे छेदो। छम्मासं छटुतवं अद्धद्धकमेण कायव्वं ॥ १६॥ पाषंडतद्भक्तानां योनिसदृशानां घातने च्छेदः । षण्मासं षष्ठतपः अर्धार्धक्रमेण कर्तव्यं ॥ अस्या अर्थः-अन्यलिंगिवधायां षण्मासानि षष्ठं भवति । दिक्षितवधायां मासत्रयं त्रिरात्रं । तद्भक्ता महेश्वरादयस्तेषां वधायां सार्धमासं त्रिरात्रं ॥ बंभणखत्तियवइसा सुद्दा चउपायगमणघादम्मि । एयंतरअहमासे अद्धद्धं छटुमंते च ॥ १७ ॥ ब्राह्मणक्षत्रियवैश्यानां शूद्राणां चतुष्पदगमनघातने। एकान्तराष्ट्रमासा अर्धाध षष्ठमन्ते च ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy