SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । अस्या अर्थ:--अष्टजनेभ्यः प्रायश्चित्तं प्रति क्रमेण । एकासंज्ञिपंचेन्द्रिये हते मूलगुणे स्थिरः प्रयत्नचारी तस्योपवासत्रयं । मूलधारिणोऽप्रयले स्थिरस्य षष्ठं स्यात् । मूलगुणेऽस्थिरस्य यत्नपरस्य षष्ठं स्यात् । मूलगुणेऽस्थिरस्य अप्रयत्नपरस्य कल्याणं । उत्तरगुणे स्थिरस्य प्रयत्नपरस्य कल्याणं । उत्तरगुणे स्थिरस्यअप्रयत्नपरस्य उपवासत्रयं। उत्तरगुणेऽस्थिरस्य प्रयत्नपरस्य षष्ठमेकं । उत्तरगुणेऽस्थिरस्य अप्रयत्नचारिणः लघुकल्याणकमेकं । अथैकवारं अज्ञानतो ज्ञानतो वारं वारं वा मूलगुणधारिणां सप्रयत्नस्थिरस्त्रिरात्रं ( षष्ठं)। मूलगुणधारिणां अप्रयत्नतः ( स्थिराणां) लघुकल्याणमेकं मूलगुणेऽस्थिरः प्रयत्नपरः पंचकल्याणं । अस्थिरः अप्रयत्नः मूलच्छेदं । उत्तरगुणे स्थिरः प्रयत्नपरः उपवासत्रयं । उत्तरगुणे स्थिरः अप्रयत्नपरः षष्ठं । उत्तरगुणेऽस्थिरप्रयत्नपरः लघुकल्याणमेकं । अस्थिरोत्तरगुणस्य अप्रयत्नपरस्य पंचकल्याणमेकं बहुवारं ॥ बहुवारेसु य छेदो छटुं लहु मासियं च मूलं पि । तिण्णुववासा छटुं लहु संठाणमडण्हं ॥ १२ ॥ बहुवारेषु च च्छेदः षष्ठं लघु मासिकं च मूलमपि । त्रय उपवासाः षष्ठं लघु संस्थानमष्टानाम् ॥ अस्या गाथाया अर्थः पश्चिमगाथायां प्रागुक्तः ॥ उत्तरमूलगुणाणं पमाददप्पम्मि जाण मलहरणं । काउस्सग्गुववासा इंदियगणणा य पाणगणणा य ॥१३॥ उत्तरमूलगुणानां प्रमाददर्पयोः जानीहि मलहरणं । कायोत्सर्गोपवासा इन्द्रियगणनया च प्राणगणनया च ॥ अस्या अर्थः-उत्तरगुणधारिणः प्राणगणनया ( इद्रियगणनया ) प्रमादे कायोत्सर्गाः असंज्ञिपंचन्द्रियं यावत् । उत्तरगुणधारिणः दर्षे इन्द्रियगणनया प्राणगणनया उपवासाः। (मूलगुणधारिणः प्रमादे इन्द्रियगणनया कायोत्सर्गाः) । मूलगुणधारिणो दर्पे प्राणगणनया उपवासा असंज्ञिपंचेन्द्रियं यावत् ॥ १ यत्नेकृतेऽपि जीववधे सति । २ अप्रयत्ने कृते ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy