SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । रात्रौ नियमेन सुप्तः पश्चिमभागे गृहितस्वाध्यायः । नियमोपवासाभ्यां तथा शुद्धयते रेतःक्षरणेन ॥ अस्या अर्थः-उदिते प्रहरे स्वाध्याये गृहीते नियमदेववन्दनाकृते निद्रायां दुःस्वप्ने जाते प्रतिक्रमणपूर्वकमुपवासं । अथ प्रतिक्रमणं विना उपवासद्वयम् ॥ सज्झायणियमसहिदे वंदणरहियस्स रेणिस्सरणे । उवठावण उववासो सोहिज्जइ रेदखिरणेण ॥ २४ ॥ स्वाध्यायनियमसहित वन्दनारहितस्य रेतोनिःसरणे । उपस्थापनेन उपवासेन शुद्धचते रेतःक्षरणेन ॥ अस्या अर्थः-पूर्व एव कथितः ॥ सज्झायणियमवंदण तिणि वि काऊण जो सुयइ साहू। रेते णिस्सरणम्हि य उवठावण छ? दिवसम्मि ॥ २५ ॥ स्वाध्यायनियमवन्दनाः तिस्रोऽपि कृत्वा यः स्वपिति साधुः । रेतसि निःसरणे च उपस्थापनं षष्ठं दिवसे ॥ अस्या अर्थः-स्वाध्यायनियमवन्दनावसाने निद्रायामतिचारे प्रतिक्रमणपूर्वकं त्रिरात्रं । मध्यान्हे प्रतिक्रमणषटम् ॥ अब्बंभं भासंतो इथिम्हि य मोहिदो य इच्छंतो। काउस्सग्गुववासो उववासा छह दप्पम्मि ॥ २६ ॥ अब्रह्म भाषमाणः स्त्रियां च मोहितश्चेच्छन् । कायोत्सर्गोपवासौ उपवासौ षष्ठं दपै ॥ अस्या अर्थः-सकामवचनभाषी स्त्रीदर्शनाभिलाषे उपवासमेकं । चित्ताभिलाषपरिणामे उपवासौ द्वौ । स्त्रीदर्शनचित्ताभिलाषे-इन्द्रियोत्कोचने उपवासत्रयम् ॥ तिरियाईउवसग्गे अब्बभं सेवयस्स मूलगुणं । मूलढाणं दप्पे तिरियाणं सुद्धस्स जणणाए ॥ २७ ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy