________________
१४२
प्रायश्चित्तसंग्रहेwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmi प्रमादेनापि-एकवारमपि तस्य । मासः स्यात्-पंचकल्याणं प्रायश्चित्तं भवति । साध्वावासमथो मुहुः-अथो अथवा, साध्वावासं साधूनां यतीनां देयमावासं आवसति, मुहुः पुनः पुनः, यदि निषेधयति तदापि मासिकमेव भवति ॥ ९६॥
चतुर्विधं कदाहारं तैलाम्लादि न वल्भते ।
आलोचना तनूत्सर्ग उपवासोऽस्य दण्डनम् ॥ ९७ ॥ चतुर्विधं-चतुर्भेदं । कदाहारं--कदन्नं । तैलाम्लादि-तैलकंजिकादि, दीयमानं व्याधिप्रभृतिकारणमन्तरेणापि । न वल्भतेन भुंक्ते । आलोचना- तनूत्सर्ग:-कायोत्सर्गः । उपवासश्चेत्येतानि । अस्य-एतस्य पुरुषस्य । दण्डनं-प्रायश्चित्तं भवति ॥ ९७ ॥
वैयावृत्यानुमोदेऽपि तद्रव्यस्थापनादिके। पथ्यस्यानयने सम्यक् सप्ताहादुपसंस्थितिः ॥ ९८॥ वैयावृत्यानुमोदेऽपि-वैयावृत्यं शरीराहारौषधादिभिरुपकारकरणं तस्यानुमोदे मन्दग्लानादिकारणसमाश्रयादनुमतौ च सत्यां । तद्रव्यस्थापनादिके-तस्य वैयावृत्त्यस्य, द्रव्याणां भाजनप्रभृतीनां , स्थापनादिके निधानधावनबन्धनादिक्रियाविशेषे कृते । पथ्यस्यानयने आतुरोचिताहारविशेषोपढौकने च । सम्यक्-प्रयत्नेन । सप्ताहात्-सप्तरात्रादनन्तरं । उपसंस्थितिः-उपस्थानं प्रतिक्रमणं प्रायश्चित्तं भवति । उपवासोऽनुक्तोऽपि लभ्यते तदविनाभावात् प्रतिक्रमणायाः ॥ ९८॥
स्वच्छन्दशयनाहारः प्रमाद्यन् करणे व्रते ।
द्वयोरप्यविशुद्धित्वाद्वारणीयस्त्रिरात्रतः ॥ ९९ ॥ स्वच्छन्दशयनाहारः-स्वस्यात्मनः, छन्देनेच्छया, शयनशीलपुरुषः स्वमनीषिकया भोजनशीलश्च । प्रमाद्यन्--प्रमादं विदधञ्च । करणे व्रतेकरणं किया त्रयोदशविधा पंचनमस्काराः षडावश्यकानि आसेधिका