________________
प्रायश्चित्त-चूलिका।
१४१
वेश्यादयः, वर्णविकलाः सूतादयः, तेषु यदि । भुंक्ते--अभ्यवहरति । अजानन्--अनवबुद्धयमानः । प्रमादतः-कथंचिदेकवारं । तदानीं तस्य, सोपस्थानं-सप्रतिक्रमणं । चतुर्थ-उपवासः । स्यात्-भवेत् । मास:मासिक प्रायश्चित्तं भवति । अनाभोगतः-अनाभोगेन अप्रकाशेन । मुहुःपुनः पुनः, मुंजानस्य साधोः ॥ ९३ ॥
जातिवर्णकुलोनेषु भुंजानोऽपि मुहुर्मुहुः ।
साभोगेन मुनिनूनं मूलभूमि समभुते ॥ ९४ ॥ जातिवर्णकुलोनेषु-जातिवर्णकुलगर्हितेषु । भुंजानोऽपि--अश्मंश्च । मुहुर्मुहुः-पौनःपुन्यात् । साभोगेन–सप्रकाशतः । मुनिः-साधुः । नूनं–निश्चितं । मूलभूमि-मूलस्थानं । समश्नुते-प्रामोति ॥ ९४ ॥
चतुर्विधमथाहारं देयं यः प्रतिषेधयेत् । . . प्रमादाद्दष्टमावाच्च क्षमोपस्थानमासिके ॥ ९५ ॥ चतुर्विधमथाहार-अथ अथवा, चतुर्विधं चतुष्प्रकारं अशनपानखाद्यस्वाद्यभदात्, आहारं भोजनं । देयं-दीयमानं । यः-कश्चिन्मुनिः । प्रतिषेधयेत्-निवारयति । प्रमादात्-विस्मरणात् । दुष्टभावाच्च-दौर्जन्यात, तदा प्रत्यकं । क्षमा--उपवासः । उपस्थानमासिके-उपस्थानं प्रतिक्रमणं, मासिकं पंचकल्याणं एते द्वे । प्रमादाद्विनिवारयतः उपवास: प्रायश्चित्तं । प्रद्वेषात् सप्रतिक्रमणं सामायिकं (मासिकं ) भवति ॥ ९५॥
ज्ञानोपध्यौषधं वाथ देयं यः प्रतिषेधयेत् ।
प्रमादेनापि मासः स्यात् साध्वावासमथो मुहुः ॥ ९६ ॥ ज्ञानोपध्यौषधं वाथ-~-अथवा ज्ञानोपधिं ज्ञानोपकरणं पुस्तकं, औषधं भेषजं । देयं-वितीर्यमाणं । यः-पुरुषः । प्रतिषेधयेत्-निषेधयति ।
१ अनाभोगेन इति पाटः पुस्तके ।