________________
प्रायश्चित्तसंग्रहे—
तैः कृत्वा । आदिशब्देन आप्रस्ता ( पृच्छा ) लोचनाव्याख्यानवात्सल्यसं- भाषणादिभिरपि । अन्योन्यागमनाद्यैश्व --- परस्परसंकाशं गमनागमनविन - -याभ्युत्थानप्रभृतिभिश्व प्रकारैः । प्रवर्तन्ते चेष्टन्ते । स्वशक्तितः -- आत्मशक्त्या सर्वसामर्थ्यात् ॥ ९० ॥
१४०
विधिमेवमतिक्रम्य प्रमादाद्यः प्रवर्तते ।
तस्मात् क्षेत्रादौ वर्षमपनेयः प्रदुष्टधीः ॥ ९१ ॥
1
-
विधिं विधानक्रमं । एवं - एवंविधं । अतिक्रम्य - उल्लंघ्य । प्रमादात् - * शैथल्यात् । यो–यतिः । प्रवर्तते – चेष्टते । तस्मात् क्षेत्रादसौ - असौ स साधुः, तस्मात्ततः, क्षेत्राद्विषयात्सकाशात् । वर्षे - संवत्सरमात्रं कालं । • अपनेयः – निर्घाटयितव्यः । प्रदुष्टधीः - दुष्टमतिः ॥ ९१ ॥
शिलोदरादिके सूत्रमधीते प्रविलिख्य यः । चतुर्थालोचने तस्य प्रत्येकं दण्डनं मतम् ॥ ९२ ॥
1
शिलोदरादिके — शिलायां दृषदि पाषाणे, उदरे ऊरौ, आदिशब्देन भूमिबाहु जंघा प्रभूतावपि । सूत्रं - आगमनिबन्धं । अधीते - यतिः । प्रविलिख्य यः - । चतुर्थालोचने- चतुर्थमुपवासः, आलोचना दोषप्रकाशना एते । तस्य - पूर्वोक्तस्य । प्रत्येकं - यथासंख्यं । दण्डनं -- प्रायश्चित्तं । - मतं - अभ्युपगतं । शिलातल भूप्रदेशादिषु उपवासः । उदरोरुजंघाबाव्हादिषु आलोचना ॥ ९२ ॥
जातिवर्णकुलोनेषु भुंक्तेऽजानन प्रमादृतः ।
सोपस्थानं चतुर्थं स्यान्मासोऽनाभोगतो मुहुः ॥ ९३ ॥ जातिवर्ण कुलोनेषु - जातिर्मातृपक्षः, वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः, - कुलं वंशः पितृपक्षः, तैरूनेषु च्युतेषु विषयभूतेषु । कुलजातिविकला
१ प्रभृतावऽपसूत्र इति पाठः पुस्तके |