________________
प्रायवित्त-यूलिका।
१३९
तृणकाष्ठकवाटानामुद्घाटनविघट्टने। .
चातुर्मास्याश्चतुर्थ स्यात् सोपस्थानमवस्थितिम् ॥ ८७ ॥ तृणकाष्ठकवाटानां-तृणकाष्ठकवाटकादीनां वस्तूनां । उद्घाटनेविवरणे च । विघट्टने-सम्बन्धे च कृते सति । चातुर्मास्या:--चतुभ्यो मासेभ्योऽनन्तरं । चतुर्थ-उपवासः । स्यात्भवेत् । सोपस्थानंसप्रतिक्रमणं- । अवस्थिति-निश्चितं ध्रुवम् ॥ ८७ ॥
शश्वद्विशोधयेत् साधुः पक्षे पक्षे कमण्डलुम् ।
तदशोधयतो देयं सोपस्थानोपवासनम् ॥ ८८॥ . शश्वत्-सर्वकालं । विशोधयेत्-अन्तः प्रक्षालयेत् सम्मूर्च्छननिरा. करणाय । साधुः-मुनिः । पक्षे पक्षे प्रतिपक्षं । कमण्डलु-जलकुण्डिकां । तदशोधयतः-तत्कमण्डलु अशोधयतः अनिलेपयतः । देयंदातव्यं । सोपस्थानोपवासनं--सोपस्थानं सप्रतिक्रमणं, उपवासनं उपवासः ॥ ८८॥
मुखं क्षालयतो भिक्षोरुदविन्दुर्विशेन्मुखे।
आलोचना तनूत्सर्गः सोपस्थानोपवासनम् ॥ ८९ ॥ मुखं-आस्यं । क्षालयतो-धावयतः सतः । भिक्षोः--साधोः । उदविन्दुः-उदकविन्दुः । विशेत् . यदि प्रविशति । मुखे--वक्त्रे । तदानी आलोचना प्रायश्चितं । तनूत्सर्गः-कायोत्सर्गः । सोपस्थानोपवा. सनं-सोपस्थानं सप्रतिक्रमणं, उपवासनं उपवासः, एतानि प्रायश्चित्तानि भवन्ति ॥ ८९॥
आगन्तुकाश्च वास्तव्या भिक्षाशय्यौषधादिभिः। ... अन्योन्यागमनाद्यैश्च प्रवर्तन्ते स्वशक्तितः ॥ ९०॥ - आगन्तुकाः--प्राघूर्णकाः । वास्तव्याश्च-स्थायिनोऽपि यतयः । भिक्षाशय्यौषधादिभिः--भिक्षा चर्या, शयनं संस्तरः, औषधं भेषजं,