________________
१३८
प्रायश्चित्तसंग्रहे
- लोहोपकरणे-अयोमयोपधौ सूचीनखरदनक्षुरप्रमुखे । नष्टे-अपलापिते सति । स्यात्--भवेत् । क्षमा-उपवासः प्रायश्चित्तं । अंगुलमानतःअंगुलप्रमाणेन । यावन्ति तस्य नष्टलोहोपकरणस्याङ्गुलानि तावन्ति क्षमणानि प्रायश्चित्तं भवति । केचिद्धनाङ्गुलैरूचुः केचिदाचार्याः घनाङ्गुलैस्तस्य लोहोपकरणस्य घनीकृतस्य यावन्ति अंगुलानि भवन्ति तावन्ति क्षमणानि सन्तीत्यूचुर्जगदुः कथितवन्तः । कायोत्सर्गः परोपधौ--परस्यान्यस्य च ( व )क्कलकप्रतिलेखनकमण्डलुप्रभृतेरुपधेरुपकरणस्य नाश सति कायोत्सर्गः प्रायश्चित्तं भवति ॥ ८४ ॥
रूपाभिघातने चित्तदूषणे तनुसर्जनम् ।
स्वाध्यायस्य क्रियाहानावेवमेव निरुच्यते ॥ ८५॥ रूपाभिघातने-आलिखितमनुष्यादिरूपस्य प्रतिबिंबस्य अभिघातने परिमार्जने कृते सति । चित्तदूषणे-विषयाभिलाषादिदुष्परिणामोत्पत्तौ च सत्यां । तनूत्सर्जनं-कायोत्सर्गः प्रायश्चित्तं । स्वाध्यायस्य क्रियाहानौ-स्वाध्यायक्रियां श्रुतभक्तिपूर्वी विधाय आगमपदजनपरिपठनविधानस्य केनचित्कारणेनाऽकरणे सति । एवमेव-पूर्वोक्तक्रमेणैव कायोत्सर्ग एव प्रायश्चित्तं । निरुच्यते-निश्चीयते ॥ ८५ ॥
योऽप्रियङ्करणं कुर्यादनुमोदेत चाथवा।। .. दूरस्थोऽसौ जिनाज्ञायाः षष्ठं सोपस्थितिं ब्रजेत् ॥ ८६ ॥
यः-यः कश्चित् साधुः । अप्रियङ्करण-अप्रियकरणमनिष्टविधानं स्वाध्यायनियमवन्दनादिक्रियाणां हीनादिकरणं । कुर्यात्-करोति । अनुमोदेत च-अनुमन्येत च । अथवा-अहोस्वित् । दूरस्थोऽसौ जिनाज्ञाया:-जिनागमात् तत्रस्थो बहिर्भूतः; असौ स साधुः पूर्वोक्तः । षष्ठं सोपस्थितिं व्रजेत्-सोपस्थानं षष्ठं षष्ठप्रायश्चित्तं वजेद्गच्छति प्रामोति ॥८६॥ १ सोऽपि स्थिति इति पाठः पुस्तके टीकानुसारेण परिवर्तितः।