________________
प्रायश्चित्त-चूलिका।
१३७ wwwwwwwwwwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
सोपस्थानोपवासनं-सोपस्थानं सप्रतिक्रमणं उपवासनमुपवासः प्रायश्चित्तं भवति । सूत्रार्थाविनयायेषु--सूत्रं आगमपाठः, अर्थोऽभिधेयं, तयोरविनयायेषु अविनयनिन्हवबहुमानक्षेत्रकालायशोधनप्रमुखदोषेषु, अथवा सूत्रार्थमप्रश्नयत्तेत् कथमयमपमर्थो (2) भवंद्भिनिर्णीत इति वैयात्येनोपाददानस्यायं दण्डः । अंगोत्सर्गालोचने--अंगोत्सर्गः कायोत्सर्गः, आलोचना च इत्येते द्वे प्रायश्चित्ते । स्मृते-कथिते ॥१८१॥
सूत्रार्थदेशने शैक्ष्येऽसमाधानं वितन्वतः ।
चतुर्थ निन्हवेऽप्वेवमाचार्यस्यागमस्य च ॥ ८२ ॥ सूत्रार्थदेशने-सूत्रार्थयोर्देशने उपदेशे कथने विशेषभूते शैक्षके । असमाधान--संक्लेशं । वितन्वतः--कुर्वतः । चतुर्थ--उपवासः प्रायश्चित्तं । निन्हवेऽप्येवं-निन्हवेऽपि निन्हुतौ च । एवं-एवं उपवास एव विशुद्धिर्भवति । आचार्यस्य-गणेन्द्रस्य । आगमस्य च-श्रुतस्यापि ॥ ८२ ॥ _ संस्तराशोधने देये कायोत्सर्गविशोषणे।
शुद्धेशुद्ध क्षमा पंचाहोऽप्रमादिप्रमादिनोः ॥ ८३॥ संस्तराशोधने-संस्तरस्याशोधनेऽतात्पर्ये सति । देये-दातव्ये । कायोत्सर्गविशोषणे-कायोत्सर्गः तनूत्सर्गः, विशोषणमुपवास इत्येते द्वे । शुद्ध-शुद्धप्रदेशे । अशुद्धे-अप्रासुकप्रदेशे । क्षमा-क्षमणं । पंचाहः-- पंचकं । अप्रमादिप्रमादिनोः-अप्रमादिनः प्रमादिनश्च । प्रासुकप्रदेशे प्रसुप्तस्य संस्तरमशोधयतः साधोरप्रमत्तस्य कायोत्सर्गः प्रायश्चित्तं । प्रमादिनः उपवासः । अप्रासुकक्षेत्रे प्रसुप्तस्योपवासोऽप्रमत्तस्यः । (प्रमत्तस्य) कल्याणं भवतीति यथासंख्यं योज्यम् ॥ ८३॥ ....
लोहोपकरणे नष्टे स्यात्क्षमाडुलमानतः। केचिद्धनाडुलैरूचुः कायोत्सर्गः परोपधौ ॥ ८४॥ .