________________
प्रायश्चित्तसंग्रहे
vvvvvvvvv
भवति । असकृत, मासिकं-पंचकल्याणं । मूलं--पुनर्दीक्षा भवति । आवधे आ समन्तात् वधे षड्जीवनिकायानां महारम्भे सति ॥ ७८ ॥
सल्लेखनेतरे ग्लाने सोपस्थाना विशोषणा।
अनाभोगेऽथ साभोगे प्रभुक्ते मासिकं स्मृतम् ॥ ७९ ॥ सल्लेखनेतरे ग्लाने--संन्यासे प्रतिष्ठितः सन् यदि क्षत्तृट्परीषहविबाधितस्तस्मिन इतरे,. ग्लाने सामान्येनाष्टोपवासपक्षोपवासमासोपवासप्रमुखो. पवासविशेषपीरपीडितस्तस्मिंश्च प्रभुक्ते सति । सोपस्थाना–सप्रतिक्रमणा । विशोषणा-उपवासः । अनाभोगे—केनचिदविज्ञाते सति । अथ अथवा । साभोगे-लोकैः समवबुद्धिः (द्धे )। प्रभुक्ते-भोजने सति । मासिकं-पंचकल्याणं स्मृतम् ॥ ७९ ॥
स्यात् सम्यक्त्वव्रतभ्रष्टैविहारे मासिकं क्षमा।.
जिनादीनामवर्णादौ सोपस्थानाङ्गसंस्कृते ? ॥ ८० ॥ ___ स्यात्-भवेत् । सम्यक्त्वव्रतभ्रष्टैः-सम्यक्त्वपरिच्युतैः पुरुषैः सह, व्रतभ्रष्टैः दुःशीलताकोधमानमायालोभाविनयसंघायशस्कारादित्वादिदोषविशेषदूषितवतैश्च सह । विहारे-विहरणे भ्रमणे आचरणे कृते सति । मासिकं-पंचकल्याणप्रायश्चित्तं भवति । क्षमा जिनादीनामवर्णादौ-जिनादीनामर्हत्सिद्धाचार्योपाध्यायसाधूनां, अवर्णादौ असद्दोषाभिभाषणाविनयशंकाकांक्षादौ उपवासः प्रायश्चित्तं भवति ॥ ८० ॥
निमित्तादिकसेवायां सोपस्थानोपवासनम् ।
सूत्रार्थाविनयाद्येष्वङ्गोत्सर्गालोचने स्मृते ॥ ८१ ॥ निमित्तादिकसेवायां-निमित्तमष्टविधं । उक्तं च
वंजणमंगं च सरं छिन्नं भोमं च अंतरिक्खं च ।
लक्खण सिविणं च तहा अविहं होइ णिम्मितं ॥ इति । । ... तस्य आदिशब्देन वैद्यकविद्यामंत्राणामपि उपसेवने समुपजीवने सति ।