SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त- चूलिका । १३५ मासः --- पंचकल्याणं सोपस्थानं संप्रतिक्रमणं भवति । बहुशो वसतिसमारंभग्रामक्षेत्रादिचिन्ताभिधायिनो, मूलं - प्रायश्चित्तं भवति ॥ ७५ ॥ ग्रामादीनामजानानो यः कुर्यादुपदेशनम् । जानन धर्माय कल्याणं मासिकं मूलगः स्मये ॥ ७६ ॥ ग्रामादीनां - ग्रामपुरखेटकर्वटमटंबगृहवसतिप्रभृतिसन्निवेशानां । अजानानःदोषमन व बुद्ध्यमानः सन् । यो यतिः । कुर्यात् विदधाति । – उपदेशनं - उपदेशं । जानन् - अवगच्छन्नपि । धर्माय - धर्मार्थ उपदेशं यदि वितनुते तदानीं अजानाने कल्याणं । धर्मकारणे, मासिकं - पंचकल्याणं प्रायश्चित्तं गच्छतीति । मूलग: - मूलं प्रायश्चित्तं गच्छतीति मूलगः । स्मये - गर्वे सति । यदि दर्पेण ग्रामाद्युपदेशनं करोति तदा मूलं प्रायश्चित्तं समश्नुते ॥ ७६ ॥ आलोचना तनूत्सर्गः पूजोद्देशेऽप्रबोधने । सोपस्थाना सकृद्देया क्षमा कल्याणकं मुहुः ॥ ७७ ॥ आलोचना - गुरुभ्यः स्वदोषविनिवेदनं । तनूत्सर्गः - कायोत्सर्गः । पूजोद्देशे - पूजोपदेशने कृते सति । अप्रबोधने-अज्ञे पुरुषे | सोपस्थाना सकृद्देया- आरंभपरिमाणं परिज्ञाय आलोचना वा कायोत्सर्गो वा तावयावत्, क्षमा-क्षमणं, सोपस्थाना सप्रतिक्रमणा, सकृदेकदिवसेषु, देया दातव्या । कल्याणकं मुहुः मुहुः पुनः पुनर्यदि पूजाविधानं देशयति तदानीं कल्याणपंचकं प्रायश्चित्तं दातव्यं भवति ॥ ७७ ॥ जानानस्यापि संशुद्धिः सकृच्चासकृदेव च । सोपस्थानं हि कल्याणं मासिकं मूलमावधे ॥ ७८ ॥ जानानस्यापि दोषमवगच्छतोऽपि पुरुषस्य पूजोपदेशे सति । संशुद्धिःप्रायश्चित्तं भवति । सकृत् -- एकवारं । असकृदेव च - अनेकवारमपि । सोप स्थानं हि कल्याणं - सकृत्सोपस्थानं सप्रतिक्रमणं, हि स्फुटं, कल्याणपंचकं * -
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy