SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। १४३ 20 . . . निषेधिकेति', व्रतानि पंचमहाव्रतानि तेष्वनादरं वितन्वानः । द्वयोरपिकारकोपेक्षकयोः । अविशुद्धित्वात्-सदोषित्वाद्धेतोः । वारणीयःनिषेद्धव्यः । त्रिरात्रतः-दिनत्रयानन्तरम् ॥ ९९ ॥ भूरिमृजलतः शौचं यो वा साधुः समाचरेत् । सोपस्थानोपवासोऽस्य वस्तिवादिकेष्वपि ॥ १० ॥ भूरिमृजलतः-प्रचुरमृतिकया बहुपानीयेन च । शौचं-विशुद्धिं । यो वा साधुः–वा अथवा, यः साधुर्यो मुनिः । समाचरेत्-(करोति) (वस्तिवर्ष्यादिकेष्वपि)--वमनविरेचनादिचिकित्साकरणे च ।(अस्यसाधोः) । सोपस्थानोपवासो-भवति ॥ १०॥ चण्डालसंकरे स्पृष्टे पृष्टे देहेऽपि मासिकम् । . तदेव द्विगुणं भुक्ते सोपस्थानं निगद्यते ॥ १०१॥ चण्डालसंकरे-चाण्डालादिभिः संकरे व्यतिकरे, संस्पृष्टे सति भवति विद्यमाने । पृष्टे देहेपि-शरीरे पृष्टेऽपि उपचितेऽपि । मासिकं-पंचकल्याणं प्रायश्चित्तं । ( तदेव ) द्विगुणं भुक्ते-अजानानेन चाण्डालादीनां हस्तेन तदर्शने वा अभ्यवहृते सति (तदेव पूर्वोक्तं प्रायश्चित्तं । द्विगुणं) सोपस्थानं–सप्रतिक्रमणं । निगद्यते--अभिधीयते ॥ १०१ ॥ असन्तं वाथ सन्तं वा छायाघातमवामुयात् । ___ यत्र देशे स मोक्तव्यः प्रायश्चित्तं भवेदपि ॥ १०२॥ असन्तं वा-अविद्यमानं वा । अथ वा सन्तं-सद्भूतं । छायाघातमाहात्म्यविनाशनं अपमानं । आमुयात्-आलभते । यत्र-यस्मिन् । देशे-विषये । स मोक्तव्यः--स पूर्वोक्तो देशः मोक्तव्यः परिहार्यः (प्रायश्चित्तं भवेदपि )-प्रायश्चित्तं च तथा स्यात् ॥ १०२॥ १ निषधेति पुस्तके ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy