________________
प्रायश्चित्तसंग्रहे
स्वाध्यायस्य चतुष्टये च विषये ध्वंसे सति विशोषणं प्रायश्चित्तं भवति । कायोत्सर्गो विकालतः-विकालतः विकालात् स्वाध्यायस्य कालविच्छेदे सति कायोत्सर्गः प्रायश्चित्तं । स्वाध्यायस्य कालोऽपि दिवसे पूर्वाह्ने घटिकात्रये सति, अपराह्नेऽन्त्यनाडिकात्रयात्पूर्व, रात्रौ प्रथमभागे नाडीत्रये गते सति, चरमभागेऽन्त्यनाडित्रयात्प्राक् ॥ ६४ ॥
प्रतिमासमुपोषः स्याच्चतुर्मास्यां पयोधयः । ___ अष्टमासेष्वथाष्टौ च द्वादशाब्दे प्रकीर्तिताः ॥६५॥
प्रतिमासं–मासं प्रति । उपोषः-उपोषणं । स्यात्-भवेत् । मासे मासे उपवासोऽवश्यं कर्तव्यः । चतुर्मास्यां पयोधयः-चतुर्यु मासेषु गतेषु पयोधयः समुद्राश्चत्वार उपवासा अवश्यं कर्तव्याः । अष्टमासेष्वथाष्टौ चअष्टमासेषु अष्टसु मासेषु, अथ अनन्तरं, अष्टौ च अष्ट उपवासा विधातव्याः। द्वादशाब्दे-अब्दे वर्षे द्वादश उपवासाः करणीयाः । प्रकीर्तिताःकथिताः ॥६५॥
पक्षे मासे कृतेः षष्ठं लंघने सप्रतिक्रमम् ।
अन्यस्या द्विगुणं देयं प्रागुक्तं निर्जरार्थिनः ॥ ६६ ॥ पक्षे मासे-पक्षे पंचदशरात्रे, मासे त्रिंशद्रात्रे च विषये या कृतिः क्रिया प्रतिक्रमणा तस्याः लंघने सकृत् सति । षष्ठं-षष्ठोपवासः प्रायश्चित्तं भवति । लंघने--अतिक्रमणे । सप्रतिक्रम-प्रतिक्रमणया सह । अन्यस्याः-परस्याः चातुर्मास्याः सांवत्सरिकायाश्च क्रियायाः लंघने सति । सप्रतिक्रमणं, द्विगुणं-द्विः । देयं-दातव्यं । प्रागुक्तं-पूर्वोपदिष्टं प्रायश्चित्तं । चातुर्मास्याः क्रियाया विलंघने सति अष्टौ उपवासा भवन्ति, सांवत्सरिकायाश्चतुर्विशतिरुपवासाः सन्ति । निर्जरार्थिनः-कर्मक्षयाभिलाषिणः साधोः ॥ ६६ ॥
आवश्यकम् ।