SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। चतुर्मासानथो वर्ष युगं लोचं विलंघयेत् । । क्षमा षष्ठं च मासोऽपि ग्लानेऽन्यत्र निरन्तरः ॥ ६७ ॥ चतुर्मासान-चतुरो मासान् । अथो-अथवा । वर्ष-संवत्सरं ।युगंपंचवर्षाणि । लोचं-बालोत्पाटं । विलंघयत्-प्रापयति यदि तदानीं यथाक्रम, क्षमा-उपवासः । षष्ठं च षष्ठोपवासः । मासोऽपि-मासिकं चेत्येतानि प्रायश्चित्तानि भवन्ति । ग्लाने-आतुरे । अन्यत्र-अन्यस्मिन् पुरुषे निर्व्याधौ । निरन्तरः-व्यवधानविरहितो मासो विशुद्धिर्भवति ॥६७॥ लोचः। .. उपसर्गादुजो हेतोर्दर्पणाचेलभंजने । क्षमणं षष्ठमासौ स्तो मूलमेव ततः परं ॥ ६८॥ . उपसर्गात्-स्वजननरेश्वरादिभिः परिगृहीतस्यात्यन्तसंकटपरिपतितस्य यतेः सतः । रुजो-व्याधेः । हेतोः केनापि निमित्तेन सता रूपपरिवर्ते कृते सति । दर्पण-गर्वेण चाहंकारं कृत्वा । अचेलभंजने आचेलक्यभंगे कृते यथाक्रममेतानि प्रायश्चित्तानि भवन्ति । क्षमणं-उपवासः । षष्ठमासौषष्ठं षष्ठोपवासः, मासो मासिकं च । स्तः-भवतः । मूलमेव ततः परंततः परं तदनन्तरं दर्पतः मूलमेवेति नान्यत्प्रायश्चित्तम् ॥ ६८॥ आचेलक्यम् । दन्तकाष्ठे गृहस्थाहंशय्यासंस्नानसेवने । कल्याणं सकृदाख्यातं पंचकल्याणमन्यथा ॥ ६९ ॥ दन्तकाष्ठे-दन्तधावने कृते सति । गृहस्थाहशय्यासंस्नानसेवनेगृहस्थाहीया गृहिजनोचितायाः, शय्यायाः तल्पस्य शयनस्य, संस्नानस्य १मिरन्तरमिति मूल पाठः पुस्तके ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy