________________
प्रायश्चित्त-चूलिका।
१२९ स्पर्शादीनामतीचारे निष्प्रमादप्रमादिनाम् ।
कायोत्सर्गोपवासाः स्युरेकैकपरिवर्द्धिताः ॥ ६३॥ स्पर्शादीनां--स्पर्शरसघ्राणचक्षुःश्रोत्रेन्द्रियाणां । अतीचारे--दोषेअनिरोधे सति। निष्पमादप्रमादिनां--निष्प्रामदस्य अप्रमत्तस्य, प्रमादिनः प्रमादवतश्च पुरुषस्य । कायोत्सर्गोपवासाः--कायोत्सर्गा उपवासाश्च । स्युः--भवेयुः । एकैकपरिवर्द्धिताः--एकोत्तरवृद्धिमधिरोपिताः । स्पर्शः कर्कशमृदुगुरुलघुशीतोष्णस्निग्धरूक्षभेदादष्टविधः । रसस्तिक्तकटुककषायाम्लमधुरलवणविशेषात् षद्धिधः । गन्धो द्विविधः सुरभिरसुरभिश्च । रूपं पंचप्रकारं कृष्णनीलपीतशुक्ललोहितविशेषात् । शब्दः षडर्षभगान्धारमध्यमपंचमधैवतनिषादविशेषतः सप्तप्रकारः । तेषु विषये दोषविशेषविशुद्धिरियं भवति । अप्रमत्तस्यैकोत्तरवृक्ष्यादिकायोत्सर्गा भवन्ति--स्पर्शे एकः कायोत्सर्गः, रसे दौ, घ्राणे त्रयः, चक्षुषि चत्वारः, श्रोत्रे पंच । प्रमत्तस्योपवासा भवन्ति--स्पर्शे । एक उपवासः, रसे द्वौ, घ्राणे त्रयः, चक्षुषि चत्वारः, श्रोत्रे पंच उपवासा इति ॥ ६३॥
इन्द्रियनिरोधम् ।
वन्दनानियमध्वंसे कालच्छेदे विशोषणम् । .
स्वाध्यायस्य चतुष्केऽपि कायोत्सर्गो विकालतः ॥६४॥ वन्दनानियमध्वंसे-वन्दना अहंदादीनामभिवादः, नियमो दैवसिकादिप्रतिक्रमणं, तयोः ध्वंसे विनिपाते सति, पूर्वाह्नमध्यान्हापराह्नदेववन्दनादिविरहे रात्रिगोचरादिनियमवर्जने च । कालच्छेदे-स्वकालातिक्रमे च । विशोषणं-विशोषः उपवासः प्रायश्चित्तं भवति । स्वकालश्च वन्दनायाः सन्ध्याकालः, दैवसिकनियमस्यादित्यबिम्बा स्तमनात्पूर्वमेव प्रारम्भः रात्रिनियमस्य प्रभास्फोटात्प्रागेव परिसमापनं । स्वाध्यायस्य चतुष्केऽपि