SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रह स्वाध्यायरहिते -- स्वाध्यायवर्जिते । काले- समये स्वाध्यायकाले स्वाध्याय कियामागमाध्ययनं वाविधाय । ग्रामगोचरगामिनः -- ग्रामगामिनः गोचरगामिनश्च व्याध्युपवासादिकारणात् भिक्षार्थ प्रविष्टस्य सतः साधोः । कायोत्सर्गोपवासौ -- ग्रामान्तरगतस्य कायोत्सर्गः । चर्यार्थ प्रविष्टस्योपवासः प्रायश्चित्तं भवतीति यथाक्रममभिसम्बन्धः ॥ ६० ॥ एषणासमितिः । १२८ काष्ठादि चलयेत् स्थानं क्षिपेद्वापि ततोऽन्यतः । कायोत्सर्गमवाप्नोति विचक्षुविषये क्षमा ॥ ६१ ॥ काष्ठादि - - दारूपल तृणकर्परप्रमुखं वस्तु । चलयेत् -- कंपयति । स्थानात्-प्रदेशात् । क्षिपेद्वापि ततोऽन्यतः -- ततस्तस्मात्स्थानात्, क्षिपेद्वा विसृजेद्वा, अन्यतोऽन्यस्मिन् प्रदेशे तदा । कायोत्सर्ग -- तनूत्सर्गे । अवाप्नोति-लभते । अचक्षुर्विषये - - अदृष्टिगोचरे । क्षमा--क्षमणं प्रायश्चित्तम् ॥ ६१ ॥ आदाननिक्षेपणासमितिः । S ऊर्ध्व हरिततृणादीनामुच्चारादिविसर्जने । कार्गो भवेत् स्तोके क्षमणं बहुशोऽपि च ॥ ६२ ॥ ऊर्ध्वं -- उपरि । हरिततृणादीनां -- हरित तृणमच्छतृणं, आदिशब्देन बीजार शिलभेद पृथ्वीभेदादीनां चोपरिष्टात् । उच्चारादिविसर्जने -- मूत्रपुरी बादिमलोज्झने कृते सति । कायोत्सर्गः -- तनूत्सर्गः । भवेत् स्यात् । स्तोके - - स्तोकवारे । क्षमणं बहुशोऽपि च बहुवारेषु -- च क्षमणमुपवासः प्रायश्चित्तं भवति ॥ ६२ ॥ प्रतिष्ठापनासमितिः ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy