________________
प्रायश्चित्तसंग्रह
स्वाध्यायरहिते -- स्वाध्यायवर्जिते । काले- समये स्वाध्यायकाले स्वाध्याय कियामागमाध्ययनं वाविधाय । ग्रामगोचरगामिनः -- ग्रामगामिनः गोचरगामिनश्च व्याध्युपवासादिकारणात् भिक्षार्थ प्रविष्टस्य सतः साधोः । कायोत्सर्गोपवासौ -- ग्रामान्तरगतस्य कायोत्सर्गः । चर्यार्थ प्रविष्टस्योपवासः प्रायश्चित्तं भवतीति यथाक्रममभिसम्बन्धः ॥ ६० ॥
एषणासमितिः ।
१२८
काष्ठादि चलयेत् स्थानं क्षिपेद्वापि ततोऽन्यतः । कायोत्सर्गमवाप्नोति विचक्षुविषये क्षमा ॥ ६१ ॥
काष्ठादि - - दारूपल तृणकर्परप्रमुखं वस्तु । चलयेत् -- कंपयति । स्थानात्-प्रदेशात् । क्षिपेद्वापि ततोऽन्यतः -- ततस्तस्मात्स्थानात्, क्षिपेद्वा विसृजेद्वा, अन्यतोऽन्यस्मिन् प्रदेशे तदा । कायोत्सर्ग -- तनूत्सर्गे । अवाप्नोति-लभते । अचक्षुर्विषये - - अदृष्टिगोचरे । क्षमा--क्षमणं प्रायश्चित्तम् ॥ ६१ ॥ आदाननिक्षेपणासमितिः ।
S
ऊर्ध्व हरिततृणादीनामुच्चारादिविसर्जने । कार्गो भवेत् स्तोके क्षमणं बहुशोऽपि च ॥ ६२ ॥ ऊर्ध्वं -- उपरि । हरिततृणादीनां -- हरित तृणमच्छतृणं, आदिशब्देन बीजार शिलभेद पृथ्वीभेदादीनां चोपरिष्टात् । उच्चारादिविसर्जने -- मूत्रपुरी बादिमलोज्झने कृते सति । कायोत्सर्गः -- तनूत्सर्गः । भवेत् स्यात् । स्तोके - - स्तोकवारे । क्षमणं बहुशोऽपि च बहुवारेषु -- च क्षमणमुपवासः प्रायश्चित्तं भवति ॥ ६२ ॥
प्रतिष्ठापनासमितिः ।