________________
प्रायश्चित्त-चूलिका।
१२७
. आधाकर्मणि-आधानमाधा . अध्यारोपः तस्याः कर्म क्रिया तस्मिन्नाधाकर्मणि षड्जीवनिकायवधविधानाभिसन्धिपूर्वकं स्वतः स्वभावादेव निष्पन्नानपाने । सव्याधेः-सरोगस्य । निर्व्याधेः--नीरोगस्य । सकृत्-एकवारं । अन्यतः-अन्यस्मात् असकृदित्यर्थः । उपवासःक्षमणं । अथानन्तरं । षष्ठं-प्रायाश्चत्तं । मासिकं-पंचकल्याणं । मूलमेव च-पुनर्दीक्षा । व्याध्यधीनत्वात्सकृदाधाकर्मणि भुक्ते सति उपवासप्रायश्चित्तं भवति । असकृत् षष्ठं । निर्व्याधिना सकृदाधाकर्मणि भुक्ते मासिकं । असकृत्सर्वकालं षड्जीवनिकायानामाबाधामाधाय भुक्ते सति मूलमेव प्रायश्चित्तं भवति ॥ ५७ ॥ ---
स्वाध्यायसिद्धये साधुर्याद्देशादि सेवते ।
प्रायश्चित्तं तदा तस्य सर्वदेव प्रतिक्रमः ॥ ५८॥ स्वाध्यायसिद्धये-स्वाध्यायाय भवति निमित्तं ( पठननिमित्तं )। साधुरपि । यदि--चेत् । उद्देशादि-उद्देशकादिदोषजातं । सेवते-अनु. भवति । प्रायश्चित्तं-विशुद्धिः । तदा तदानीं । तस्य-उद्देशादिनिविणः । सर्वदेव--सर्वकालमपि । प्रतिक्रमः-प्रतिक्रमणं । इहापि प्रतिक्रमो नियम इति वेदितव्यः ॥ ५८ ॥
एकं ग्राम चरेद्भिक्षुर्गन्तुमन्यो न कल्पते । द्वितीयं चरतो ग्रामं सोपस्थानं भवेत्क्षमा ॥ ५९ ॥ एकं ग्राम--एकं नगरादिसन्निवेशं । चरेत्--चरति भिक्षार्थ पर्यटति । भिक्षुः-यतिः । गन्तुमन्यो न कल्पते-एकस्मिन् ग्रामे चर्यार्थ पर्यट्य तस्मिन्नेव दिवसे भिक्षार्थ द्वितीयो ग्रामं गन्तुं न कल्पते नोचितः । द्वितीयं-अन्यं । चरतो--भ्रमतः ग्रामं । सोपस्थान--सप्रतिक्रमणा । भवेत् स्यात् । क्षमा--क्षमणम् ॥ ५९॥
स्वाध्यायरहिते काले ग्रामगोचरगामिनः । कायोत्सर्गोपवासौ हि यथाक्रममनूदितौ ॥६० ॥