SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२६ .. प्रायश्चित्तसंग्रहे-- wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwr.. कुड्यं-भित्तिः, आदिशब्देन स्तंभप्रभृति च । आलम्ब्य-आश्रित्य । निष्ठूय-निष्ठीवनं विधाय । चतुरंगुलसंस्थितिं त्यक्त्वा-चतुरंगुलान्तरितपादविन्यासं चोन्मुच्य । उक्त्वा-निगद्य भुक्ते सति । क्षमणं-उपवासः । ग्लाने--च, पवासादिपरिपीडिते पुरुषे ।भुक्ते-भुक्तवति प्रायश्चित्तं भवति । षष्ठं तथा परे-तथा तेनैव न्यायेन, परे परस्मिन् अग्लाने पुरुषे पूर्वोक्तविधानेन भुक्ते सति, षष्ठं प्रायश्चित्तं भवति ॥ ५४ ॥ काकादिकान्तरायेऽपि भन्ने क्षमणमुच्यते । गृहीतावग्रहे त्यागः सर्व भुक्तवतः क्षमा ॥ ५५ ॥ काकादिकान्तरायेऽपि भग्ने--काकामेध्यच्छदिरोधरुधिरावलोकनाश्रुपातादिकान्तराये भग्ने खंडिते सति । क्षमणं-उपवासप्रायश्चित्तं । उच्यते-ऽभिधीयते । गृहीतावग्रहे-उपात्तनिवृत्तौ च भंगे सति । त्यागःकृतनिवृत्तेर्वस्तुनः भोजने क्रियमाणे सति पुनः संस्मृतेः त्यागः तद्भोजनपरिहार एव प्रायश्चित्तं । सर्व भुक्तवतः-सर्वमाहारं भुक्तस्य सतः । क्षमा-उपवासो दण्डो भवति ॥ ५५ ॥ महान्तरायसंभूतौ क्षमणेन प्रतिक्रमः। . भुज्यमानेक्षते शल्ये षष्ठेनाष्टमतो मुखे ॥ ५६ ॥ ___ महान्तरायसंभूतौ-महान्तरायसंभवे अस्थिसंसक्तान्नसंसेवने सति । क्षमणेन-उपवासेन सह । प्रतिक्रमः-प्रतिक्रमणप्रायश्चित्तं भवति । भुज्यमाने-अद्यमाने ओदनादौ विषयभूते ।ईक्षिते-दृष्टे सति। शल्येअस्थि (?)। षष्ठेन षष्ठप्रायश्चित्तेन सह प्रतिक्रमः । अष्टमतः अष्टमेन सह प्रतिक्रमः प्रायश्चित्तं भवति । मुखे-आस्ये सति । इह शल्यग्रहणमुपलक्षणार्थ । अतः सार्द्रचर्मरुधिरादावप्येवमेव प्रायश्चित्तं भवति ॥ ५६ ॥ आधाकर्मणि सव्याधेनिधेिः सकृदन्यतः । उपवासोऽथ षष्ठं च मासिकं मूलमेव च ॥ ५७ ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy