SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त- चूलिका । दृष्ट्वा योषामुखाद्यङ्गं यस्य कामः प्रकुप्यति । आलोचना तनूत्सर्गस्तस्य च्छेदो भवेदयम् ॥ ३० ॥ ११७ दृष्ट्वा - अवलोक्य | योषामुखाद्यङ्गं - स्त्रीवदनायवयवं । यस्य - कस्यचिन्मन्दभाग्यस्य । कामोऽभिलाषः । प्रकुप्यति - उत्कोचमायाति । आलोचना – गुरुभ्यः स्वदोषविनिवेदनं । तनूत्सर्गः - कायोत्सर्गः । तस्य - प्रागुक्तस्य साधोः । छेदः - प्रायश्चित्तं । भवेत् स्यात् । अयं - एषः ॥ ३० ॥ स्त्रीगुह्यलोकनो वृष्यरस संसेविनो भवेत् । रसानां हि परित्यागः स्वाध्यायोऽचित्तरोधिनः ॥ ३१ ॥ स्त्रीगुह्यालोकिनः - स्त्रीणां गुह्यादेः योनिप्रभृत्यवयवस्थालोकनशीलस्य लिंगिनः । वृष्यरस संसेविनः वृषाणीन्द्रियाणि तेभ्यो हिता बलोपचयविधायिनो वृष्यास्ते च ते रसाश्व वृष्यरसास्तान् संसेवते इत्येवं शीलः वृष्यरससेवी तस्य च । भवेत् स्यात् । रसानां - दधिदुग्धशाल्योदनघृतपूरादीनामिन्द्रियबलवर्धनानां । हि-स्फुटं । परित्यागः परिवर्जनं प्रायवित्तं भवति । स्वाध्यायोऽचित्तरोधिनः- स्वाध्यायोऽपराजितादिपरममंत्र पदजपः परमागमाध्ययनं च सोऽयमनुचरतः स्वाध्यायो विशुद्धध्यानाधारभूतः प्रायश्चित्तं भवति प्रज्ञातिशयाध्यवसान विशुद्धिहेतुत्वात् । उक्तं च ――― मनः सदर्थाधिगमे प्रसक्तं वाक्यार्थयोगे नयने पदेषु । श्रुतिः श्रुतौ निश्चलविग्रहस्य ध्यानेऽपि चैकाग्यमिहापि तुल्यम् ॥१॥ इत्यादि । अचित्तरोधिनो मनोरोधविरहितस्य सतः साधोः तत्वाभ्यास एव यश्चित्तं भवति ॥ ३१ ॥ चतुर्थम् ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy