SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ प्रायश्चित्तसंग्रहे— तरुण्या — स्त्रिया सह । तरुणो — युवा यतिः । कुर्यात् करोति कथालापं - कथा वाक्यप्रबंधं, आलापं सामान्यवचनं । सकृत् - एकवारं । यदि - चेत् कथंचित् । उपवासोऽस्य दातव्यः - उपवासः प्रायश्चित्तं, अस्यएतस्य स्त्रीकथालापकारिणः, दातव्यों देयः । असकृत् - अनेकवारं । यदि स्त्रीभिः सह कथालापं करोति तदा स एवोपवासः । षण्मासपश्चिमः -- षण्मासावधिर्भवति ॥ २६ ॥ · स्त्रीजनेन कथालापं गुरूनुल्लंघ्य कुर्वतः । स्यादेकादि प्रदातव्यं षष्ठं षण्मासपश्चिमं ॥ २७ ॥ स्त्रीजनेन कथालापं - स्त्रीजनेन योषिन्निवहेन सह, कथालापं रहस्यादि समुल्लापं । गुरूनुल्लंघ्य - आचार्योपाध्यायादिभिर्विनिवारितस्यापि । कुर्वतो - विदधानस्य । स्यात् भवेत् । एकादि प्रदातव्यं षष्ठं- एकषष्ठादि प्रायश्चित्तं प्रदातव्यं । षण्मासपश्विमं - षण्मासावधि ॥ २७ ॥ स्त्रीजनेन कथालापं गुरूनुल्लंघ्य कुर्वतः । त्याग एवास्य कर्तव्यो जिनशासनदूषिणः ॥ २८ ॥ स्त्रीजनेन - महिलासमूहेन । कथालापं - गुह्यकथासमुल्लापं । गुरूनआचार्यादीन् । उल्लंघ्य — अतिक्रम्य । कुर्वतो - विदधतः । त्याग एवास्य कर्तव्यः - अस्य निरंकुशस्य त्याग एवं उद्वासनमेव कर्तव्यो विधेयः । जिनशासन दूषिणः सर्वज्ञाज्ञाकलङ्ककारिणः ॥ २८ ॥ स्थातुकामः स चेद्भूयस्तिष्ठेत्क्रमणमौनतः । आषण्मासमयः कालो गुरूद्दिष्टावधिर्भवेत् ॥ २९ ॥ स्थातुकामः——स्थातुमनाः । सः -- पूर्वोक्तः । चेत् (?) । समयः ( ? ) । 'गुरूद्दिष्टावधि :-- आचार्योपदिष्टमर्यादः । भवेत् -- स्यात् । यावन्तं कालं आचार्योऽमीच्छति तावान् कालो भवति ॥ २९ ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy