________________
प्रायश्चित्त-चूलिका।
११५
विधाय सुप्तस्य दुःस्वप्ने सति सप्रतिक्रमणोपवासः प्रायश्चित्तं भवति । क्रियाद्वयं विधाय सुप्तस्य दुःस्वप्ने सति नियमोपवासौ भवतः । क्रियात्रयमपि कृत्वा प्रसुप्तस्य सतः दुःस्वप्ने सति नियमः प्रायश्चित्तं भवतीति यथाक्रमं योज्यम् ॥ २३॥
नियमक्षमणे स्यातामुपवासप्रतिक्रमौ ।
रजन्या विरहे तु स्तः क्रमात् षष्ठप्रतिक्रमौ ॥ २४ ॥ नियमक्षमणे-नियमोपवासौ । स्यातां-भवेतां । उपवासप्रतिक्रमौउपवासप्रतिक्रमणौ । रजन्या विरहे तु-रात्रेः पश्चिमप्रहरे पुनः । स्तःभवतः । कमात्--क्रमेण यथासंख्यं । षष्ठप्रतिक्रमौ-षष्ठप्रतिक्रमणौ । रात्रेश्चरमप्रहरे एका क्रियां विधाय संसुप्तस्य दुःस्वप्ने सति नियमोपवासौ प्रायश्चित्तं । क्रियाद्वयं विधाय शयितस्य दुःस्वप्ने सति उपवासेन सह प्रतिक्रमणो भवति । ( क्रियात्रयं विधाय शयितस्य दुःस्वप्ने सति सप्रतिक्रमणं षष्ठं प्रायश्चित्तं भवति )॥ २४ ॥
मद्यमांसमधु स्वमे मैथुनं वा निषेवते ।।
उपवासोऽस्य दातव्यः सोपस्थानश्च चेद्बहु ॥ २५ ॥ मद्यमांसमधु-मद्यं सुरा, मांसं पिशित, मधु माक्षिकं । स्वप्ने-निद्रायां । मैथुनं वा-अब्रह्म वा । निषेवते—यद्यनुभवति । तदानीं, उपवासोऽस्य दातव्यः-उपवासः प्रायश्चित्तं, अस्य एतस्य साधोः, दातव्यो देयः । सोपस्थानश्च-प्रतिक्रमणायोपलक्षितो भवति । चेद्वहु-यदि मद्यमांसमैथुनादि बहु निषेवितं भवति ॥ २५ ॥
तरुण्या तरुणः कुर्यात्कथालापं सकृयदि ।
उपवासोऽस्य दातव्योऽसकृत् षण्मासपश्चिमः ॥२६॥ १ नायं कंसस्थः पाठः पुस्तके अर्थानुसारित्वात् स्वबुद्धया परिकल्प्य संयोजितः। पश्यतु छेदपिण्डस्य ५७-५८ गाथाद्वयं ।