SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११४ प्रायश्चित्तसंग्रहे .. एवंविधि समुलंध्य यः प्रवर्तेत मूढधीः । ___ बलवन्तं समासृत्य यो वादत्ते प्रदोषतः ॥२१॥ एवंविधि-एवंभूतां व्यवस्थां । समुलंध्य-अतिक्रम्य । यः-कश्चित् साधुः । प्रवर्तेत-प्रवर्तते चेष्टते । मूढधी:-मूढबुद्धिः । बलवन्तं समासृत्य यो वादत्ते-वा अथवा, यो यतिः, बलवन्तं बलिनं नरेन्द्रादिकं, समासृत्य उपपद्य, आदत्ते गृह्णाति उपकरणं । प्रदोषतः-प्रदोषात् प्रवेषात्, तस्य वक्ष्यमाणो दण्डः ॥ २१ ॥ सर्वस्वहरणं तस्य षण्मासः क्षमणं भवेत् । योऽन्यथापि तमादत्ते तस्य तन्मौनसंयुतं ॥ २२ तस्य-तस्यान्यायविधायिनः । सर्वस्वरहणं-निरवशेषपुस्तकाद्युपकरणापहारो दण्डः । षण्मासः क्षमणं- षण्मासान यावदेकान्तरोपवासश्च । भवेत् स्यात् । योऽन्यथापि तमादत्ते-यः साधुः, अन्यथापि अन्येनापि केनचित्प्रकारान्तरेण, तमुपधिं, आदत्ते गृह्णाति । तस्यसाधोः । तत्-तदेव प्रागभिहितं षण्मासक्षमणं प्रायश्चित्तं भवति । मौनसंयुतं-मौनेन समन्वितम् ॥ २२॥ तृतीयं व्रतम् । क्रियात्रये कृते दृष्टे दुःस्वप्ने रजनीमुखे । सोपस्थानं चतुर्थं नि-यमाभुक्ती प्रतिक्रमः॥ २३॥ क्रियात्रये-स्वाध्यायनियमवंदनाकरणत्रितये । कृते-सति, विहिते सति । दृष्टे-विलोकिते । दुःस्वप्ने-रेतश्च्युतौ सतीत्यर्थः । रजनीमुखेप्रदोषसमये । सोपस्थानं चतुर्थ-सोपस्थानं सप्रतिक्रमणं, चतुर्थमुपवासः । नियमामुक्ती नियमो लघुप्रतिक्रमणं, अभुक्तिरुपवासः । प्रतिक्रमः-अयं प्रतिक्रमो नियम इति ग्राह्यः । रात्रेः प्रथमभागे स्वाध्यायाद्यन्यतरक्रियां
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy