________________
प्रायश्चित्त- चूलिका ।
सकृत् – एकवारं । शून्ये - विजने । समक्षं - सपक्षा प्रत्यक्ष अनाभोगे—मिथ्यादृष्ट्यादीनामपरिपश्यतां विशेषवतः पदार्थस्य । अदससंग्रहे—अवितीर्णग्रहणे सति । कायोत्सर्गोपवासाः कायोत्सर्गा उपवासाश्च । स्युः—भवेयुः । प्राग्वत् - पूर्ववत् एकोत्तर वृद्ध्या इत्यर्थः । चशब्दात्प्रतिक्रमणपुरस्सराः कायोत्सर्गोपवासाः सन्ति । शून्येऽदत्तादाने एकः कायोत्सर्ग उपवासश्च सप्रतिक्रमणः । प्रत्यक्षमदत्तादाने सति द्वौ कायोत्सर्गौ द्वावुपवासौ प्रतिक्रमणौ सुवर्णहिरण्यादौ तु मूलगुणप्रायश्चित्तं भवति । मूलगुणोऽसकृत् - असकृदनेकवारं अदत्तादाने मूलगुणः पंचककल्याणं स्यात् ॥ १८ ॥
आचार्यस्योपधेरर्हा विनेयास्तान् विना पुनः ।
सधर्माणोऽथ गच्छश्च शेषसंघोऽपि च क्रमात् ॥ १९ ॥ आचार्यस्य -- गणिनः । उपधेः -- पुस्तकाद्युपकरणस्य । अर्हा:-- योग्याः । विनयाः--तच्छिष्याः । तान् विना पुनः -- शिष्यैर्विना तु । सधर्माणः - - गुरुभ्रातरः अर्हाः । अथ - - अनन्तरं सधर्मणो विना । गच्छःस्वगणोऽपि त्रिपुरुषान्योऽपि अर्हः । गच्छं विना, शेषसंघोऽपि च - शेषोऽवशिष्टः संघश्च सप्तपुरुषान्वयोऽपि योग्यः । क्रमात् -- क्रमेण यथान्यायं यथाक्रमं परिपाट्या ॥ १९॥
सर्वे स्वामिवितीर्णस्य योग्यो ज्ञानोपधेरपि ।
स्वामिना वा वितीर्येत यस्मै सोऽपि तमर्हति ॥ २० ॥ सर्वे- - निरवशेषाः साधवः शिष्यादयोऽन्यसम्बन्धिनोऽपि । स्वामिवि - तीर्णस्य -- उपकरणस्य, प्रभुणा प्रवितीर्णस्योपकरणस्य अर्हा भवन्ति । योग्यो ज्ञानोपधेरपि – ज्ञानोपधेः पुस्तकस्य तु योग्यः य एव योग्यो ज्ञानी स एवार्हः । स्वामिना वा वितीर्येत यस्मै — वा अथवा, स्वामिना पुस्तकपतिना, यस्मै साधवे, वितीर्येत दीयते । सोऽपि - स च । तं - ज्ञानोपधिं अर्हति - भजति गृह्णाति ॥ २० ॥