________________
.११२
प्रायश्चित्तसंग्रहे
wwwwwwwwwwwwwwwwwwwwwwww.
वादे एकः कायोत्सर्ग उपवासश्च प्रतिक्रमणः । परोक्षे मृषावादे द्वौ कायोसर्गोपवासौ च प्रतिक्रमणे । उभयस्मिन् मृषावादे त्रयः कायोत्सर्गा उपवासाश्च प्रतिक्रमणः (णाः)। विधामृषावादे चत्वारः कायोत्सर्गाः उपवासाश्च प्रतिक्रमणपुरस्सरा भवन्ति एकवारम् ॥ १५॥
असकृन्मासिकं साधोरसदोषाभिभाषिणः । कषायादभियुक्तस्य परैर्वा द्विगुणादि तत् ॥ १६ ॥ असकृन्मासिकं--अनृत इति वर्तते तेन असकृदनेकवारमनुते सति मासिकं पंचकल्याणं प्रायश्चित्तं भवति । साधोरसदोषाभिभाषिणः-- साधार्यतेः संबन्धिनः, असतोऽविद्यमानस्य, दोषस्यापराधस्य, यः कश्चिन्मुनिरभिभाषणशीलस्तस्य । कषायात्--क्रोधमानमायालोभैहेतुभूतैः । अभियुक्तस्य परैर्वा--परैरन्यैर्वा समीपस्थितैः, अभियुक्तस्य प्रेरितस्य सतः । द्विगुणादि तत्-पूर्वोक्तं प्रायश्चित्तं कायोत्सर्गादिमासिकपर्यन्तं द्विगुणादि भवति द्विगुणं त्रिगुणं चतुर्गुणं पंचगुणं अधिकगुणं च वापि देयम् ॥ १६॥
नीचः पैशून्ययुष्टस्य गच्छाद्देशाद्वहिष्कृतिः
तच्छुत्वा मन्यमानोऽपि दोषपादांशमश्नुते ॥ १७॥ नीचः-पृथग्भूतस्य निकृष्टस्य । पैशून्ययुष्टस्य--पिशुनो दुर्जनः तस्य भावः पैशून्यं तेन युष्टस्य सेवितस्योपहतस्य सतः। गच्छात्-गणात् । देशात्-विषयाच्च । बहिष्कृतिः-बहिष्करणमुद्वासनं प्रायश्चित्तं भवति ॥ तच्छ्रुत्वा-तत्साधोः सम्बन्धि पैशुन्यं श्रुत्वा आकर्ण्य । मन्यमानोऽपिमन्धानश्च मुनिः । दोषपादांशं-तदोषचतुर्भागं । अश्नुते-लभते ॥ १७॥
द्वितीयं व्रतम्
सकृच्छून्ये समक्षं चानाभोगेऽदत्तसंग्रहे । कायोत्सर्गोपवासाः स्युः प्राग्वन्मूलगुणोऽसकृत् ॥ १८ ॥