________________
प्रायश्चित्त-चूलिका।
१११
रसंपन्ने षष्ठायन्ता अष्टमासा एकान्तरोपवासेन प्रायश्चित्तं भवति । क्षत्रियघाते चत्वारो मासाः । वैश्यघाते द्वौ मासौ । शूद्रघाते मासः । चतुष्पदविघाते सत्यर्धमासो भवति ॥ १३ ॥
तृणमांसात्पतत्सर्पपरिसर्पजलौकसाम् ।
चतुर्दशनवाद्यन्तक्षमणानि वधे छिदा ॥ १४ ॥ तृणमांसात्पतत्सर्पपरिसर्पजलौकसां-तृणात् तृणचरः, मांसात् मांसाशी, पतत् पक्षी, सर्पो विषधरः, परिसर्पः गोधेराविः, जलौकसो जलचरास्तेषां घाते सति । चतुर्दशनवाद्यन्तक्षमणानि-चतुर्दशादीनि नवान्तानि क्षमणानि उपवासाः । वधे-घाते । छिदा-छेदः प्रायश्चित्तं भवति । तृणचरस्य मृगशशकरोधादेविधाते चतुर्दशोपवासा भवन्ति । मांसाशिनः सिंहव्याघ्रचित्रकादेविघाते त्रयोदश उपवासाः । तित्तिरिमयूरकुर्कटपारापतादिपक्षिविशेषविघाते द्वादशोपवासाः । सर्पगौनसादौ सर्पजातिव्यापादने एकादशोपवासाः । गोधेरककृकलासादिपरिसर्पविनाशे दशोपवासाः । मकशिशुमारमत्स्यकच्छपादीनां विनाशने नवोपवासाः सन्ति ॥ १४ ॥
प्रथमं व्रतम्
प्रत्यक्षे च परोक्षे च द्वयेऽपि च विधानृते ।
कायोत्सर्गोपवासाः स्युः सकृदेकैकवर्धनात् ॥ १५ ॥ प्रत्यक्षेच-व्यक्तं । परोक्षे-असमक्षं च । तद्वयेऽपि-प्रत्यक्षे परोक्षे च । त्रिधा-मनसा, वचसा, कायेन च। अनुते-असत्यभाषणे कृते सति । कायोत्सर्गोपवासाः--कायोत्सर्गा उपवासाश्च प्रायश्चित्तं । स्युः--भवेयुः । सकृत्---एकवारं । एकैकवर्धनात्--एकोत्तरवृदया। च शब्दोऽनुकृष्टे समुच्चयाथः । तेन सप्रतिक्रमणाः कायोत्सर्गोपवासाः सन्ति । प्रत्यक्षमृषा
१ द्विरुक्तोयं शब्दः पुस्तके ।