________________
प्रायश्चित्तसंग्रह- .
wwwwwwwwwwwwmmmmmmmmmwwwwmmmmmmmmm. भवेत् । षष्ठं-षष्ठोपवासः । ऋषिहत्यायां सत्यां द्वादशमासा यावत् षष्ठेन षष्ठेन कृत्वा पारणं प्रायश्चित्तं भवति । अर्धाधहानियुक्-अर्धाधहानियुतं ततस्तदेव षष्ठमर्धाधहानियुक्तं भवति । श्रावकस्य घाते कृते सति षण्मासाः षष्ठेन षष्ठेन पारणं । बालस्य घाते सति त्रयो मासाः षष्ठेन षष्ठेन पारणं । स्त्रीघाते सा| मासः षष्ठेन षष्ठेन पारणं । गोधाते त्रयोविंशतिदिवसाः षष्ठेन षष्ठेन पारणाप्रायश्चित्तं भवति ॥ ११ ॥
पाषंडिनां च तद्भक्ततधोनीनां विघातने ।
आषण्मासं भवेत्षष्ठं तदर्धाध ततः परम् ॥१२॥ पाषंडिनां--अन्यलिंगिनां भौतिकभिक्षुपरिवाटकापालिकादीनां । तद्भक्ततधोनीनां--तेषां पाषण्डिनां ये भक्ता उपसेविनः माहेश्वरादयस्तेषां, तधोनीनां माहेश्वरादीनां योनीनां योनिभूतानां स्वजनानामित्यर्थः तेषां च । घातेने सति । आषण्मासं भवेत् षष्ठं--पाषण्डिघाते सति आषण्मासं यावत्, षष्ठं षष्ठप्रायश्चित्तं भवति । तदर्धाधं ततः परं--तस्य षण्मासषष्ठस्य यथागममधि, ततः परं तदनन्तरं भवति । तद्भक्तवधे यो मासाः षष्ठप्रायश्चित्तं भवति । (तद्योनिवधे सा? मासः षष्ठप्रायश्चित्तं भवति )॥ १२॥
ब्राम्हणक्षत्रविदछुद्रचतुष्पदविघातिनः।।
एकान्तराष्टमासाः स्युः षष्ठाद्यन्ताश्च पूर्ववत् ॥ १३ ॥ ब्राह्मणक्षत्रविद्रचतुष्पदविधातिनः-ब्राह्मणाः लौकिका विप्राः, क्षत्राः क्षत्रियाः, विशो वैश्याः, शूद्रास्तत्प्रेषणकारिणः तक्षाभीरकुम्भकारादयः चतुष्पदास्तान विहन्तीत्येवं शीलस्त द्विघाती । अथवा तद्विघातोऽस्यास्तीति तद्विघाती तस्य ब्राह्मणक्षत्रविद्रचतुष्पदविघातिनः साधोः । एकान्तराष्टमासाः---एकान्तरेण एकान्तरोपवासेन, अष्टमासाः अष्टौ त्रिंशद्रात्राः । स्युः-~भवेयुः । षष्ठायन्ता:--धष्ठाद्याः षष्ठान्ताश्च आदावन्ते च षष्ठं भवतीत्ययमर्थः। पूर्ववत्-अर्धाधहानितः । लौकिकब्राह्मणघाते कथंचि