________________
प्रायश्चित्त-चूलिका।
१०९ mmmmmmmmmmmmmmmmmm.rrrrrrrrrr प्रायश्चित्तं । अथ-अनन्तरं । मासिकं-पंचकल्याणं । एतच्चासकृदसंज्ञिपंचे.. न्द्रियस्य वधे कृते सति तयोरेव यथासंख्यं प्रायश्चित्तं भवति ॥ ९ ॥
एतत्सान्तरमाम्नातं संज्ञिनि स्यान्निरन्तरम् । तीव्रमंदादिकान् भावानवगम्य प्रयोजयेत् ॥ १० ॥ एतत्-अदः प्रागुक्तं प्रायश्चित्तं । सान्तरं--सव्यवधानं व्याधिप्रभृति-- कारणसमागमे सत्याचार्यानुज्ञया विश्रम्यापि क्रियते इति सान्तरं । आम्नातं-अभिहितं । संज्ञिनि स्यान्निरन्तरं-संज्ञी शिक्षाक्रियालापग्राही तस्मिन् निहते सति, स्याद्भवेत्, निरन्तरं यदसंज्ञिपंचेन्द्रियोद्दिष्टं प्रायश्चित्तं संज्ञिपंचेन्द्रिये तदेव निरन्तरं व्यवधानविवर्जितं भवति । तीव्रमंदादिकान् भावान्-भावाः परिणामः स च त्रिविधो भवति शुभाशुभविशुद्धविशेषात् । तत्र शुभः पुण्योपचयहेतुः । अशुभः पापोपचयकारणं द्वेषात्मपरिणामोऽशुभः । रागरूपः शुभोऽपि भवत्यशभश्च । विशुद्धोऽनुभः यात्मकः । स पक्षकस्तेन्यस्तानां ? भवति । तत्राशुभो भावस्त्रिविधतीवो मन्दो मध्य इति । तत्र चाशुभस्तीवः कृष्णलेश्यो, मध्यमो नीललेश्यो. मन्दः कपोतलेश्य इति । शुभोऽपि त्रिभेदभिन्नो भवति । तत्र शुभो मंदस्तेजोलेस्यः, मध्यमः पद्मलेश्यः, तीव्रः शुक्ललेश्यः । पुनस्तीवादयो भावास्तीव्रतरतीव्रतमभेदविशेषविशिष्टा भवंति । पुनस्तेऽपि प्रत्यकं त्रिविधाः । एवं शुभभावाश्च तावद्यावदसंख्येया लोका इति । एवमेतान। अवगम्य-ज्ञात्वा । प्रयोजयेत्-प्रायश्चित्तं सम्बन्धयेत् ॥ १० ॥
साधूपासकबालस्त्रीधेनूनां घातने क्रमात् । यावद्वादशमासाः स्यात् षष्ठमर्धार्धहानियुक् ॥११॥ साधूपासकबालस्त्रीधेनूनां साधुर्यती रत्नत्रयधारी, उपासकः संयतासंयतः, बालः शिशुः, स्त्री योषिन्महिला, धेनुर्गौः तासां। घातने-व्यापादने। क्रमात्-यथाक्रमेण । यावद्द्वादशमासाः-द्वादशमासा यावत् । स्यात्