SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०८ प्रायश्चित्तसंग्रहे वारसमाई काउं चउआलस अंतु जाव विस्सें तु ? नियमेण पुव्वोच्छे उवरि पडिक्कमेण पुव्वं तु ॥ इति । निष्प्रमादः प्रमादी च प्रत्येकं स स्थिरोऽस्थिरः । मूलधार्युत्तराधारस्तस्यासंज्ञिविघातिनः ॥ ७ ॥ निष्प्रमादः-प्रमादः संज्वलनतीवोदयः प्रमादान्निष्क्रान्तो निष्प्रमादः। प्रमादो यस्यास्तीति प्रमादी । प्रत्येकं-एकं एक प्रति । सः-निष्प्रमादः प्रमादी च । स्थिर:--लब्धप्रतिष्ठः, अपरोऽपि, अस्थिरश्च परश्च (स्व) भाव इति निष्प्रमादो विभेदभिन्नो भवति । प्रमादी च द्विभेदः । एवं चतुष्प्रकारो मूलधारी-मूलगुणधारी भवति । उत्तराधारः-उत्तरगुणोपपन्नोऽपि चतुर्विधो भवति । तस्य-पूर्वाभिहितस्य मूलगुणधारिण उत्तरगुण धारिणश्च । असंज्ञिविघातिनः-असंज्ञिपंचेद्रियोपमर्दिनः प्रायश्चित्तमुपरिं वक्ष्यते ॥ ७॥ उपवासास्त्रयः षष्ठं षष्ठं मासो लघुः सकृत् । कल्याणं त्रिचतुर्थानि कल्याणं षष्ठकं क्रमात् ॥८॥ उपवासाः-क्षमणानि, त्रयः भवन्ति । षष्ठं-द्वौ उपवासौ । पुनः षष्ठं । मासो लघुः-लघुमासः । सकृत्-एकवारं । कल्याणं-पंचकं । त्रिचतुर्थानि-त्रीणि चतुर्थानि त्रय उपवासा इत्यर्थः । पुनः कल्याणपंचकं । षष्ठं । क्रमात्-क्रमेण । एतानि प्रायश्चित्तानि मूलोत्तरगुणधारिणः सकृ. दसज्ञिपंचोन्द्रये हते सति यथासंख्यं भवन्ति ॥ ८॥ षष्ठं मासो लघुर्मूलं मूलच्छेदोऽसकृत्पुनः । - उपवासास्त्रयः षष्ठं लघुमासोऽथ मासिकम् ॥९॥ षष्ठं-षष्ठप्रायश्चित्तं । मासो लघुः-लघुमासः । मूलं-मासिकं । मूलच्छेदः-पुनरपि मासिकप्रायश्चित्तं । असकृत्पुनः–अनेकवारं तु । उपबासास्त्रयः--त्रीणि क्षमणानि। षष्ठं-षष्ठप्रायश्चित्तं । लघुमास:--लघुमास
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy