________________
प्रायश्चित्त-चूलिका।
१०७
चतुरिन्द्रिये चत्वारः, पंचेन्द्रिये पंच । अस्थिरस्य प्राणगणनया कायोत्सर्गाः सन्ति-एकेन्द्रियस्य वधे चत्वारः कायोत्सर्गाः, द्वीन्द्रिये षट् , त्रीन्द्रिये सप्त, चतुरिन्द्रियेऽष्टौ, असंज्ञिपंचेन्द्रिये नव, संज्ञिपंचेन्द्रिये दश कायोत्सर्गाः भवन्ति । अप्रयत्नव्रतस्थिरस्येन्द्रियगणनया कायोत्सर्गाः उपवासाः । अस्थिरस्य प्राणगणनया कायोत्सर्गा उपवासा भवन्ति । मूलगुणधारिणः प्रयत्नचारिणः स्थिरस्येन्द्रियगणनया कायोत्सर्गाः, अस्थिरस्य प्राणगणनया भवन्ति । अप्रयत्नचेष्टस्य स्थिरस्येन्द्रियगणनया कायोत्सर्गाः उपवासाः । अस्थिरस्य प्राणगणनयोपवासा भवन्ति ॥ ४ ॥
अथवा यत्न्ययत्नेषु हृषीकप्राणसंख्यया।
कायोत्सर्गा भवन्तीह क्षमणं द्वादशादिभिः ॥५॥ • अथवा-अन्यमतेन । यन्ययत्नेषु-यनिष्वप्रयत्नवत्सु [प्रयत्नेषु] पुरुघेषु प्रत्येकं । हृषीकप्राणसंख्यया-इन्द्रियप्राणगणनया प्रायश्चित्तं, (प्रयत्नपरेषु इन्द्रियगणनया ) अप्रयत्नपरेषु प्राणगणनया कायोत्सर्गाःभवन्ति–सन्ति । इह-अस्मिन् शास्त्रे । क्षमणं-उपवासस्तु । द्वादशादिभिः-द्वादशप्रभृतिभिरेकेन्द्रियादिभिर्भवति । द्वादशभिरेकेन्द्रियैरेक उपवासः । षभिः द्वीन्द्रियैरुपवासः । चतुर्भिस्त्रीन्द्रियैरुपवासः । त्रिभिश्चतुििन्द्रयरुपवास इति ॥ ५॥
षदत्रिंशन्मिश्रभावार्कग्रहैकेषु प्रतिक्रमः ।
एकद्वित्रिचतुःपंचहृषीकेषु स षष्ठयुक् ॥६॥ षट्त्रिंशन्मिश्रभावार्कग्रहकेषु-मिश्रभावा अष्टादश ज्ञानदर्शनादयः, अर्काः द्वादश, ग्रहा नव तेषु षट्त्रिंश [ त्स ] दादिषु । प्रतिक्रमः-प्रतिक्रमणं उपस्थानं । एकद्वित्रिचतुःपंचहृषीकेषु-एकेन्द्रियादिषु, एकस्मिन् पंचेन्द्रिये प्रत्येकं सः । षट्त्रिंशत्सु एकेन्द्रियेषु अष्टादशसु द्वीन्द्रियेषु द्वादशसु त्रीन्द्रियेषु नवसु चतुरिन्द्रियेषु एकस्मिन् पंचेद्रिय प्रत्येकं । सः-पूर्वोपदिष्टः प्रतिक्रमः प्रायश्चित्तं भवति । षष्ठयक्-षष्ठेन द्वाभ्यां निरन्तराभ्यां उपवासाभ्यां युतः समन्वितः । उक्तं चान्यैः