________________
१०६
प्रायश्चित्तसंग्रहे
उत्तरमूलसंस्थेषु प्रमादाद्दर्पतश्छिदा। कायोत्सर्गोपवासाः स्युरिन्द्रियप्राणसंख्यया ॥४॥ उत्तरमूलसंस्थेषु-उत्तरमूलगुणाऽऽस्थितेषु । प्रमादात्-यत्ने कृतेऽपि जीववधे सति । दत्-अप्रयत्नाद्धेतोः । छिदा-छेदः प्रायश्चित्तं । कायोत्सर्गोपवासाः-कायोत्सर्गाः उपवासाश्च । स्युः-भवेयुः। इंद्रियप्राणसंख्यया-इन्द्रियप्राणगणनया। तत्र तावदिन्द्रियाणि निगद्यन्ते-एकेन्द्रियाणां पंचानामपि प्रत्येकमेकमेकेन्द्रियं स्पर्शनम् । द्वीन्द्रियस्य जन्तोः द्वे इन्द्रिये स्पर्शनं रसनं च । त्रीन्द्रियस्य त्रीणीन्द्रियाणि स्पर्शनं रसनं घ्राणं च । चतुरिन्द्रियानां चत्वारि स्पर्शनं रसनं घ्राणं चक्षुश्च । पंचेन्द्रियस्य पंचेन्द्रियाणि स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं चेति । प्राणाश्चत्वारो भवन्ति इन्द्रियप्राणबलोच्छासनिश्वासप्राणायुःप्राणा इति । तत्रेन्द्रियप्राणः पंचप्रकारः प्रागुक्त एव । बलप्राणस्त्रिविधः मनोबलं वचनबलं कायबलमिति । एते सर्वे दश प्राणा भवन्ति । उक्तं च
पंचेन्द्रियाणि त्रिविधं बलं च सोच्छासनिश्वासयुतास्तथायुः ॥ प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरणं तु हिंसा ॥ १॥ इति । एकेन्द्रियस्य चत्वारः प्राणाः स्पर्शनेन्द्रियं, कायबलं, उच्छासनिश्वासप्राणः, आयुरिति।वीन्द्रियस्य षट्प्राणा भवन्ति स्पर्शनरसनमिति द्वे इन्द्रिये, कायबलं, वाग्बलं, उच्छासनिश्वासप्राणः, आयुरिति । त्रीन्द्रियस्य सप्त प्राणा भवन्ति पूर्वोक्ता एव षट् घ्राणेन्द्रियाधिकाः । चतुरिन्द्रियस्याष्टौ प्राणाः पूर्वोक्ताः सप्त चक्षरिन्द्रियाभ्याधिकाः । असंज्ञिपंचेन्द्रियस्य नव प्राणा भवन्ति प्रगुद्दिष्टा अष्ट श्रोत्रेन्द्रियाभ्यधिकाः । संज्ञिपंचेन्द्रियस्य दश प्राणाः प्रागुद्दिष्टा नव मनोबलालिंगिता इति । तत्रेन्द्रियप्राणगणनयोच्यतेउत्तरगुणधारिणः प्रयत्नवतः इन्द्रियप्राणगणनया कायोत्सर्गा भवन्ति । स्थिरस्येन्द्रियगणनया कायोत्सर्गा भवन्ति-एकेन्द्रियस्य वधे एकः कायोत्सर्गः, द्वीन्द्रिये द्वौ कायोत्सर्गौ, त्रीन्द्रिये त्रयः कायोत्सर्गाः,