________________
प्रायश्चित्त-चूलिका।
१०५
मूलोत्तरगुणेषु-मूलोत्तरविशेषेषु, मूलगुणा द्विविधा यतीनां श्रावकाणां च, तत्र यतिमूला अष्टाविंशतिः अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादयः । श्रावकाणां मूलगुणा विविधा अष्टौ मद्यमांसमधुपंचोदुम्बरपरित्यागाः । उत्तरगुणा यतीनामनेकविकल्पा आतापनतोरणस्थानमौनादयः । श्रावका“णामुत्तरगुणाः सामायिकप्रोषधोपवासप्रभृतयस्तेषु विषये तान् प्रति । ईषत्-मनाक् किंचित् स्तोकं । विशेषव्यवहारतः--विशेषव्यवहारात् विशेषप्रायश्चित्तशास्त्रेभ्यः सकाशात् । साधूपासकसंशुद्धिं--साधूनां यतीनां, उपासकानां श्रावकाणां, संशुद्धिं विशुद्धिं प्रायश्चित्तं । वक्ष्ये--कथयिष्ये । संक्षिप्य-समासतः । तद्यथा--भवति, तथा कथ्यते ॥२॥
एकेन्द्रियादिजन्तूनां हृषीकगणनाद्वधे।
चतुरिन्द्रियकुद्धानां प्रत्येकं तनुसर्जनम् ॥३॥ एकेन्द्रियाः पंचप्रकाराः पृथिव्यप्तेजोवायुवनस्पतिकायिकाः (वनस्पतिकायिकाः) विभेदाः प्रत्येकवनस्पतयोऽनन्तकायवनस्पतयश्चेति । तत्र प्रत्येककायिका एकजीवस्यैकशरीरं ते च पूगफलनालिकेरादयः। अनन्तकायिका अनन्तजीवानामेकशरीरं तेऽपि गुडूचीसूरणादयः । आदिशब्देन दीन्द्रियाः शंलशुक्त्यादयः, त्रीन्द्रियाः कुन्थुपिपीलिकाप्रभृतयः, चतुरिन्द्रिया भ्रमरमक्षिकाप्रमुखाः, पंचेन्द्रिया मनुष्यमत्स्यमकरोरगादयः । तेषां जन्तूनां जीवानां वधे । हृषकगणनात् ---इन्द्रियसंख्यया प्रायश्चित्तं भवति । वधे--विनाशे मारणे च सति । चतुरिन्द्रियकुद्धानां-चतुरिन्द्रियपर्यन्तानां । प्रत्येक--यथासंख्यं । तनुसर्जनं--तनुः शरीरं पंचप्रकारं औदारिकं, वक्रियिकं, आहारकं, तैजसं, कार्मणमिति, तस्याः पंचप्रकाराया अपि तनोरुत्सर्जनं परित्यजनं मूर्छाममत्वाभावः तनूत्सर्जनं कायोत्सर्ग इत्यर्थः । स च शुद्धोपयोगलक्षणं विशुद्धात्मरूपं विश्वात्मकं लोकालोकावभासिनं परमात्मानमेव निर्जरार्थ ध्यायतः साधुर्भवति । पंचेन्द्रियाणामग्रतः प्रायश्चित्तं वक्ष्यति ॥ ३॥