SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्री गुरुदास - विरचिता प्रायश्चित्त चूलिका | - श्रीनन्दिगुरुकृत-विवरणसहिता । ने प्रणम्य परमात्मानं केवलं केवलेक्षणम् । मयातिधास्यते किंचिच्चूलिकाविनिबन्धनम् ॥ १ ॥ अथ तत्र तावदिष्टदेवतानमस्कारो निर्विघ्नार्थः शिष्टव्यवहारपरिपालनार्थश्व स्तुयते; योगिभिर्योगगम्याय केवलायाविनाशिने । ज्ञानदर्शनरूपाय नमोस्तु परमात्मने ॥ १ ॥ इति । नमोऽस्तु - नमस्कारोऽस्तु नमस्कारो भवतु । कस्मै ? परमात्मने - आत्मा नीव उपयोगलक्षणः, परमः प्रधानः संसारासारापारसागर समुत्तीर्ण इत्यर्थः, स चासौ आत्मा च परमात्मने नमः । किंविशिष्टाय ? योगगम्याय -- योगः समाधिः शुभाशुभभावाभावस्वभावः सम्यग्ज्ञ नमित्यर्थः, तेन गम्य इति योगगम्यो योगविषय इत्यर्थः । कैः ? योगिभिः -- ध्यानिभिः । पुनरपि कथंभूताय ? केवलाय - शुद्धाय निष्कलायेति यावत् । अविनाशिने - अव्ययाय | पुनरपि कथंभूताय ? ज्ञानदर्शनरूपाय - ज्ञानं केवलज्ञानं, दर्शनं केवलदर्शनं, ज्ञानदर्शनमेव रूपं स्वरूपं यस्य स ज्ञानदर्शनरूपः, तदविनामावादनन्तवीर्यानन्त सौख्यादीनां तदन्तर्भावः । एवंविधमतीतानागतवर्तमानकालगोचरं सामान्यापेक्षयैकं सिद्धपरमेष्ठिनं प्रणम्य पूर्व, तदनन्तरं प्रायश्चित्तचूलिका विधियते ॥ १ ॥ मूलोत्तरगुणेष्वीषद्विशेषव्यवहारतः । साधूपासक संशुद्धिं वक्ष्ये संक्षिप्य तद्यथा ॥ २॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy