________________
१९८
प्रायशिससंग्रहे
उपधेः स्थापनाल्लोभादैन्यादानप्ररूढितः । संग्रहात क्षमणं षष्ठमष्टमं मासमूलके ॥ ३२ ॥ उपधेः-गृहस्थोपकरणस्य । स्थापनात्-प्रणिधानात् । लोभात्मूर्छायाः । दैन्यात्-कार्पण्यात् । दानप्ररूढितः .-रूढिप्रदानात् प्रसिद्धदानग्रहणात् । संग्रहात्-सर्वपरिग्रहग्रहणाद्धेतोः । क्षमण-मुपवासः । षष्ठं-षष्ठप्रायश्चित्तं । अष्टमं-अष्टमदण्डनं ।मासमूलके-दे, मासः मासिकं, मलं पुनीशा । गृहस्थमात्रास्थापने क्षमणं प्रायश्चित्तं सोपस्थानं । सुवर्णहिरण्यादिपरिग्रहलोभे च सति षष्ठं । याचित्वा सुवर्णहिरण्यादिपरिग्रहादानेऽ-- टमं । ग्रहणसंक्रान्तिव्यतिपातादिषु प्रसिद्धेषु हिरण्यसुवर्णादिसंग्रहणे सति मासिकं । हिरण्यसुवर्णमणिमुक्ताफलादिसाभोगपरिग्रहसमादाने मूलं प्रायः-- श्चित्तं भवति ॥ ३२॥
पंचमम् ।
रात्रौ ग्लानेन भुक्ते स्यादेकस्मिँश्च चतुर्विधे । उपवासः प्रदातव्यः षष्ठमेव यथाक्रमम् ॥ ३३ ॥ रात्रौ–निशि । ग्लानेन--व्याधिविशेषपरिश्रमविविधोपवासादिपरिपीडितेन सता कर्मोदयवशात् प्राणसंकटे । भुक्ते-ऽभ्यवहृते सति । स्यात्भवेत् । एकस्मिन्-भुक्ते एकतराहारे भुक्ते, सति । चतुर्विधे चतुष्प्रकारे अशने पाने खाये स्वाये च । उपवासः--क्षमणं । प्रदातव्यः-प्रदेयः । षष्ठमेव षष्ठं । यथाक्रम--यथासंख्यं । एकस्मिन्नाहारे क्षमणं । चतुर्विधाहारे षष्ठमिति प्रयोज्यम् ॥ ३३॥
षष्टम् ।
व्यायामगमनेऽमार्गे प्रासुकेपासुके यतेः। कायोत्सर्गोपवासौ स्तोऽपूर्णेकोशे यथाक्रमम् ॥ ३४ ॥