________________
१०२
प्रायश्चित्तसंग्रहे
अस्या अर्थः-कारुणां गृहे यदा खानं पानं तदा पंचोपवासा भवन्ति ॥ लोइयसूरत्तविही जलाइपरदेसवालसण्णासे। मरिदे खणे ण सोही वद सहिदे चेव सागारे ॥ ८६ ॥
लौकिकशूरत्वविधिना जलादिपरदेशबालसन्यासेन ।
मृते क्षणे न शुद्धिः व्रतसहिते चैव सागारे ॥ अस्या अर्थः-लौकिकशौर्येण मृते, पानीये नावादिप्रविष्टेन मृते, प्रवासेन मृते, बालमरणेन मृते, संन्यासेन मृते, व्रतसहिते श्रावके मृते सूतकं नेति ॥
पण दस बारस णियमा पण्णरसएहिं तत्थ दिवसेहिं । खत्तियबंभणवइसा सुद्दाइ कमेण सुज्झंति ॥ ८७ ॥ पंचभिः दशभिः द्वादशभिः नियमात् पंचदशभिः तत्र दिवसैः ।
क्षत्रियब्राह्मणवैश्याः शूद्राः क्रमेण शुद्धयन्ति ॥ काऊण य जिणपूया अहिसेवा तेण तस्स पहाणं च । उवयरणवत्थपुव्वं दायव्वं चउन्विहं दाणं ॥ ८८॥
कृत्वा च जिनपूजां अभिषेकं तेन तस्य स्नानं च ।
उपकरणवस्त्रपूर्व दातव्यं चतुर्विधं दानं ॥ अस्या अर्थः-प्रायश्चित्तानन्तरं जिनपूजाभिषेकाः ततस्तेनैव जिनस्नानोदकेन आत्मस्नानं करणीयं । ततस्तु उपकरणवस्त्रचतुर्विध दानं देयमिति ॥ तह य सुवण्णादीणं दायव्वं इच्छियाण जहजोग्गं । सिरमुंडणं च कुज्जा लोयाण य चित्तगहणडं ॥ ८९॥
तथा च सुवर्णादीनां दातव्यं इच्छितानां यथायोग्यं । शिरोमुंडनं च कुर्यात् लोकानां च चित्तग्रहणार्थ ॥ जावदिया परिणामा तावदिया होंति तत्थ अवराहा। पायच्छित्तं सक्कइ दाईं काढुं च को समए ॥ ९ ॥