________________
छेदशास्त्रम् ।
मुत्तपुरीसे रेदे अभक्खभक्खम्मि होइ तह चेव । पंचुंबरादिभक्खे पमादचारीण उववासो ॥ ८२ ॥
मूत्रपुरीषे रेतप्ति अभक्ष्यभक्षे भवति तथा चैव ।
पंचोम्बरादिभक्षे प्रमादचारिणां उपवासः ॥ अस्या अर्थः--दर्पण मूत्रपुरीषरेतोभक्षणे सति उपवासा द्वादश । प्रमादे सति षष्ठं । अथ क्षीरवृक्षाणां पंचोदुम्बरफलानि भक्षमाणे प्रमादे उपवासमेकं । दर्पण मक्षिते षष्ठं ॥
गोधादवंदिगहणे अवलंबियमडय पिड किमिटे। छह उववासा कहिया कारुयचंडालअण्णपाणेण ॥ ८३॥
गोघातवन्दिग्रहणेन अवलंबितमृतस्य स्पृष्टं कृमिदष्टे ।
षडुपवासाः कथिताः कारुकचांडालान्नपानेन ॥ अस्या अर्थः-गोघातेन मृतस्य । अथ धृतेन मारित (मृतस्य)। अथ बद्धन मृतः। मृतकस्य कृमि देहे जाते कुहियलिंगशरीरे उपवासाः षड् भवन्ति । कास्कगृहचाण्डालखाने पाने उपवासाः षड् भवन्ति । अथ तैः सह संसृष्टे उपवासाः षट् ॥ मादसुदादिसजोणी चंडालीणं च जो (य) गच्छंतो। बत्तीसा उववासा दायव्वा सोहणहाए ॥ ८४॥ - मातृसुतादिस्वयोनीः चांडालीश्च यः गच्छन् ।
द्वात्रिंशदुपवासाः दातव्याः शोधनार्थम् ।। अस्या अर्थः-माता दुहिता चाण्डालिका ताभिः सह गमनं स्वप्ने तदा प्रायवित्तं द्वात्रिंशदुपवासाः ॥
कारुयपत्तम्मि पुणो भुत्ते पीदे वि तत्थ मलहरणं । पंचुववासा णियमा णिद्दिट्टा छेदकुसलेहि ॥ ८५ ॥
कारुकपात्रे पुनः भुक्ते पीतेऽपि तत्र मलहरणं । पंचोपवासा नियमात् निर्दिष्टाः छेदकुशलैः ।।