SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । समितीन्द्रियक्षितिशयने लोचे दन्तमने संक्लेशानाम् । कायोत्सर्गोपवासौ बहुवारे मूलमितरेषाम् ।। अस्या अर्थः–एकवारे प्रमादे कृते कायोत्सर्ग । बहुवारायां उपवास ॥ मूलगुणाः। अब्भोवगासठाणादिगा य अथिरा हु दुविह आदाव । अत्तोरणतरुमूलं थिरजोगा होति णायया ॥ ५५ ॥ अभ्रावकाशस्थानादिकाश्च अस्थिरा हि द्विविध आतापः । अतोरणतरुमूलौ स्थिरयोगौ भवतः ज्ञातव्यौ ।। अस्या अर्थः-अभ्रावकाशस्थानमौनवीरासनानि चत्वारि चलयोगाः । आतापनः स्थिरोऽस्थिरश्च । अतोरणयोगस्तरुमूलयोगौ एतौ स्थिरौ ॥ थिरजोगाणं भंगे वाहिपडिकारकण्णजावटुं। जे दिवहा ते खमणा पहण्णभग्गाण इयराणं ॥ ५६ ॥ स्थिरयोगानां भंगे व्याधिप्रतीकारकरणजापार्थम् । यावन्ति दिवसानि तावन्ति क्षमणानि प्रतिज्ञाभग्नानां इतरेषाम् ॥ अस्या अर्थ:-स्थिरयोगभंगे आगन्तुकदिनानि उपोषितव्यानि । अस्थिरयोगप्रतिज्ञाभंगे तेन च क्रमेण उपवासाः, परं किन्तु प्रतिक्रमणपूर्वकं स्थितिः ॥ सप्पडिकमणं मासिय तच्चुववासा तहेव लहुमासं । पढमे पक्खे मज्झिम पच्छिमपक्खे य जोगवहे ॥ ५७॥ सप्रतिक्रमणं मासिकं तावन्त उपवासाः तथैव लघुमासः । प्रथमे पक्षे मध्यमे पश्चिमपक्षे च योगवधे ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy